________________
६०८
तत्त्वसंग्रहे
अनर्थग्रन्थमात्रेऽपति। कृतिर्ध्वस्तेति सम्बन्धः । अविद्यमानोऽर्थो यस्य ग्रन्थस्यासौ, दश दाडिमादिवाक्यवदनर्थः, वेदविरुद्धार्थो वाऽनर्थो बौद्धदिसिद्धान्तवत्, अनर्थश्चासौ ग्रन्थश्चेति तथोक्तः । मात्रशब्देन व्याप्तिं दर्शयति । कृति:करणम्। तथैत वेदवत्। अनियतिरिति अनियमः। एष नियमो न स्यादिति यावत्। तदिति तस्मात् ।। २६७५-२६७७ ॥ यदुक्तम्- 'परेणोक्तान् ब्रवीमीति" (तत्त्व० २२९०) इत्यादि, तत्राह
परेणोक्तान् ब्रवीमीति विवक्षा चेदृशी भवेत्।
तुल्यप्रत्यवमर्शाद्धि विभ्रमात् कर्मभेदवत्॥ २६७८ ॥ कर्मभेदवदिति सप्तम्यन्ताद् वतिः। अनेनैकप्रत्यवमर्शस्य विपक्षसम्भवोपदर्शनादनैकान्तिकतोक्ता भवति ॥ २६७८ ॥ [G.716 ] स्यादेतद्, विभ्रमवत्वमस्य कथं सिद्धम् ? इत्याह
परेणोक्तास्तु नोच्यन्ते वैलक्षण्यात् स्वरादिभिः। . न च व्यञ्जकधर्मोऽयं वर्णात्मत्वेन दर्शनात्॥ २७६९॥ ततः प्रतिनरं वर्णा भिन्ना दृष्टा घटादिवत्।
अतो भेदे सुविस्पष्टे तच्चिद्रं किं निषिध्यते॥२६८०॥ . स्वरादिभिरिति उदात्तदिभिः । आदिशब्देन द्रुतमध्यविलम्बितादिपरिग्रहः। न च व्यञ्जकधर्मोऽयमिति स्वरादिः । कुतः? वणात्मत्वेन तस्य स्वरादेर्दर्शनात्, सिद्धत्वादित्यर्थः । तच्चिह्नमिति। तस्य वर्णभेदस्य चिह्न तच्चिह्नम्, तत् किमिति निषिध्यते "न चान्यच्चिह्नमस्ति वः" (तत्त्व०२२९०) इत्यने ॥ २६७९-२६८०॥ "जात्या यथा घटादीनाम्" (तत्त्व० २२९१) इत्यादावाह
प्राक् च जात्या घटादीनां व्यवहारोपलक्षणम्।
निषिद्धं तदसत्त्वेन व्यक्त्या च तदयोगतः ॥२६८१॥ प्रागिति सामान्यपरीक्षायाम्। तदसत्त्वेनेति तस्या जातेरसत्त्वेन । सत्यपि सत्त्वे व्यक्त्या घटादिलक्षणया सह तस्या जातेरनुपकार्याया अयोगतोऽसम्बन्धादयुक्तं' तया व्यवहारोपलक्षणम् ॥ २६८१॥ तेन जातिद्वारेण तदेतत् समुपकल्पितं तत् सर्वमसङ्गतमिति दर्शयति
ताल्वादिजातयस्तस्मात् सर्वपुंस्वव्यवस्थिताः।
नातो वक्ता ध्वनींस्ताभिरुपलक्ष्य' निरस्यति॥२६८२॥ यदुक्तम्- "तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः" (तत्त्व० २२९३) इत्यादि, तत्राह
तन्न तज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः।
यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥२६८३॥ तदिति तस्मात् ॥ १६८३ ।। यदप्युक्तम् - "तत्र ताल्वादिसंयोगे' (तत्त्व० २२९४) इत्यादि, तत्राह
१
धान्यनं.-..
२. ०रुप....क्ष्य-पा०।