________________
श्रुतिपरीक्षा
६०७
मिथ्यामोहमदादिभ्यो विपरीता च कल्पना॥२६७१॥ अन्य एव भवेद् वेदः प्रतिकञ्चकतां गतः।
इत्यप्याशङ्कयते यावद् बाधकं न प्रकाश्यते॥२६७२॥ एवं मन्यते-नैवास्माभिरपि शब्दोच्छेदात्मकः प्रलयो वर्ण्यते, नाप्यनादिपुरुषः सृष्टिसंहारकारकः, किं तर्हि ? सर्वमेव जगदनादि, व्यवहारोऽप्यनादिवासनोद्भूतविकल्पपरिनिष्ठतः शाब्दः प्रवर्तत इति; किन्तु योऽयं भवता देशोत्सादादिरूपप्रलयो वर्णितः, यश्च बौद्धैरन्यम्बुवायुसंवर्तनीयस्वभावः पर्यन्ततस्त्रिसाहस्रमहासाहस्रलोकधातुमर्यादोऽधस्ताद्वायुमण्डलावधिरुपरिष्टाद् यथाक्रमं प्रथमद्वितीयतृतीयध्यानपर्यन्तः, सोऽयं प्रमाणेनाबाधित्वादव्याहतोऽशक्यनिषेधत्वाद् ब्रह्मादेरपि शङ्कयते । अतोऽस्मिन् द्विविधेऽपि प्रलये वेदस्य ध्वंस: सम्भाव्यते, विपरीतार्थकल्पनं च। तथा चान्य एवायं वेदः प्रतिकञ्चकताम्=तत्प्रतिभासतां गतः-इत्याशङ्का न निवर्त्तते यावद् बाधकं प्रमाणं नोच्यते भवतेति ॥ २६७०-२६७२ ।।
स्यादेतद्-अस्त्येव बाधकं प्रमाणम्। तथा हि-इदानीं तावत् सर्वत्र देशे पुरुषैर्न वेदस्य पाठादेरन्यथात्वं शक्यते कर्तुम्, अत: 'कालान्तरेऽपि तथाभूत्, भविष्यति च' इत्यध्यवस्यामः? इत्यत एतदाशङ्कयाह
अन्यथाकरणेच्छायामपि वर्तेत न ध्वनिः। तथैव यदि वाञ्छा वा नृणां जायेत नान्यथा॥ २६७३॥ शङ्कयेतायं तथा वेदो न ग्रन्थार्थान्यथात्मकः।
अन्यथेच्छाप्रवृत्तौ तु नाशङ्का विनिवर्त्तते ॥२६७४॥ [G.715] यदि.हि सत्यामन्यथाकरणेच्छायां वेदध्वनिरन्यथा न प्रवर्तेत, अन्यथाकरणेच्छा चोत्पादयितुं न शक्यते, तदा वेदपाठादेरन्यथात्वकरणाशक्तिः पुंसां सिध्येत्। तत्रापि न सर्वपुंसां सिध्यति; अदर्शनमात्रस्याप्रमाणत्वात्, पुरुषाणामतिशयदर्शनाच्च । यावता शक्यते "शं नो देवीरभिष्टये' इत्यादेर्वेदवाक्यस्य पाठोऽन्यथापि कर्तुम्, अर्थो वा व्याख्यातुम्। तथा हि- मीमांसक-निरुक्तकारादयो बहुधा वेदार्थं विशंसन्तो दृश्यन्ते। तस्मान्न शङ्कानिवृत्तिः ॥ २६७३-२६७४॥
यदुक्तम्- "न च क्रमस्य कार्यत्वम्" (तत्व०२२८७) इत्यादि परिहारोपवर्णनम्,
तत्राह
न च सर्वैः क्रमः पुम्भिः पूर्वसिद्धः प्रगृह्यते। स्वातन्त्र्येणापि कुर्वन्ति पदवाक्याक्षरक्रमम्॥२६७५॥ अन्यथा कृतकः कश्चित् स्याद् ग्रन्थो वेदवन्न ते। अनर्थग्रन्थमात्रेऽपि ध्वस्ता कृतिरतस्तथा॥ २६७६ ॥ यथैवास्य परैरुक्तस्तथैवैनं विवक्षति।
इत्येषाऽनियतिस्तन्न सम्बन्धवदनादिता॥ २६७७॥ . पदानि च वाक्यानि चाक्षराणि चेति तथोक्तानि, तेषां क्रम इति विग्रहीतव्यम् । १. रुप... टात्– पा०। २. सा-पा०, गा०। ३. पुंस:- पा०, गा०। ४. सर्वसिद्ध:- पा०. गा० ।