________________
६०६
तत्त्वसंग्रहे ननु च गाव्यादिशब्दानामसाधुत्वानैव वाचकत्वमिष्टं परेणेत्यसिद्धो दृष्टान्तः । तथा चोक्तं कुमारिलेन
"गोशब्देऽवस्थितेऽस्माकं तदशक्तिजकारितात्। गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी॥" .
(श्रो० वा०, श० नि० २७६) इति। अयमस्यार्थ:-गोशब्दे साधौ वाचके सति या गाव्यादेरसाधोः प्रयोगात् गोबुद्धिर्भवतीत्युच्यते, न सा तत एव भवति, किं तर्हि ? मूलम् प्रधानं साधुगोशब्दमनुसृत्य। तदशक्तिजकारितादिति, गाव्यादेरिति सामानाधिकरण्येन सम्बन्धः । तस्मिन् गोशब्दे साधौ पुरुषस्योच्चारयितुमशक्तिस्तदशक्तिः, ततो जातो यस्ताल्वादिव्यापारः स तथोक्तः, तेन कारितो गाव्यादिशब्दः । पुरुषस्य प्रयोज्यस्य गाव्यादिशब्दं कुर्वतः प्रयोजकत्वेन विवक्षितं यत् तस्य । तथा भर्तृहरिणोक्तम्
"अम्बाम्बेति यथा बाल: शिक्ष्यमाणः प्रभाषते। . . अव्यक्तं तद्विदां तेन व्यक्तेर्भवति निश्चयः॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते। तेन साधुव्यवहितः कश्चिदर्थोऽनुमीयते ॥"
.. . (वा०प० १.१५२-५३) इति। अत इदमाह
गोशब्देऽवस्थिते योग्ये तदशक्तिजकारितात्।
गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी॥ २६६७॥ तन्नैवमित्यादिना प्रतिविधते- .
तन्नैवम्; शनकादीनां संस्कृतानवबोधनात्। मूलशब्दानुसारेण . कथमर्थगतिर्भवेत्॥२६६८॥ तस्माच्छब्दार्थसम्बन्धो नित्यो नाभ्युपगम्यते।
स तु सामयिको युक्तः सर्वथा तस्य सम्भवात्॥२६६९॥ [G.714] शनकादीनामिति कैवर्तकादीनाम् । आदिशब्देन म्लेच्छादीनां ग्रहणम्। तथा हितेषां प्रत्युत संस्कृतेनैव शब्देनार्थे प्रतिपाद्यमाने व्यामोह एव भवति, अतो न मूलशब्दानुसारिणी युक्ताऽर्थगतिः ॥ २६६८-२६६९॥
___ यदुक्तम्- 'देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत्' (तत्त्व० २२७६) इत्यादि,
तत्राह
देशोत्सादकुलोत्सादरूपो यः प्रलयो भवेत्। यो वाऽव्याहतबौद्धेष्टो ब्रह्मादेरपि शङ्कयते॥ २६७०॥ तस्मिन् सम्भाव्यते वेदे ध्वस्तमूला मतिः परा।
२-२. पाठोऽयं पा०, गा० पुस्तकयो स्ति।
१. ०शक्तिजकारित्वात्-जै०। ३. अवाश्वेति-पा०, गवाश्वेति-गा०।