________________
६०५
श्रुतिपरीक्षा दोषात् । तथा हि-सम्बन्धेऽपि कल्पिते पुनरपि कस्मादपरमदृष्टसामर्थ्य हेत्वन्तरं न कल्प्येत, अदृष्टसामर्थ्येनाविशेषात्, एवं पुनरपि–इति महत्यनर्थपरम्परा जायेत ॥ २६६२ ।।
नरेच्छामात्रसम्भूतसंकेतादपि केवलात्।
युज्यते व्यवहारश्च ततो योगो न सिध्यति॥२६६३॥ एवं बाधकस्य प्रमाणस्य व्याप्तिं प्रसाध्य नरेच्छेत्यादिनाऽर्थापत्तेरनैकान्तिकत्वं पूर्व प्रतिपादितमुपसंहरति। योगो न सिध्यतीति। नित्य इति शेषः ॥ २६६३॥
एवं च कृत्वा यच्चेदमुक्तम्- 'सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः' (तत्त्व० २२७२) इत्यादि, तत्परस्परपराहतमुक्तमिति दर्शयति
अन्यथाऽनुपपत्तिस्तद्वयवहारस्य शङ्कयते।
अतीन्द्रियश्च योगोऽतो न नरैरवगम्यते ॥ २६६४॥ . सर्वेषामनभिज्ञत्वात् पूर्वपूर्वाप्रसिद्धितः।
न' सिद्धो योग इत्येवं किमसौ परिकल्प्यते॥२६६५॥ यदि हि सर्वेषामनभिज्ञत्वम्, कथं तर्हि पूर्वपूर्वतोऽनभिज्ञत्वात् सम्बन्धप्रसिद्धिर्भवेत्, न ह्यन्धपरम्परा परेषां रूपविशेषोपदेशाय प्रभवति! तथोक्तं शाबरभाष्ये "नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेषु" (मी० द०, शा० भा० १.१.२) इति। स्यादेतद्-प्रत्यक्षदर्शित्वात् सर्वेऽनभिज्ञा उच्यन्ते, न तु सर्वथा परिज्ञानाभावात्, शाब्दव्यवहारान्यथानुपत्त्या तु प्रमाणेन पूर्वपूर्वेषां वृद्धानामभिज्ञत्वमस्त्येवेति ? नैतदेवम्; यतोऽन्यथाऽपि सङ्केताच्छाब्दो व्यवहार: प्रवर्तित इति दर्शितमेतत्। 'न नाम दर्शितम्, तथापि सन्दिग्धमेतत्-किमसौ नित्य आहोस्विदनित्य इति? अतएवाह-शङ्कयत इत्यादि। तथा हि-अर्थापत्त्या सम्बन्धमात्रास्तित्वं प्रतिपाद्यते, न तु विशेषः, तेन सह प्रतिबन्धासिद्धेरित्यभिप्रायः । अत एवानुमानान्नार्थापत्तेर्भेदः । [G.713] स्यादेतत्-नानित्यस्यार्थप्रतिपादनहेतुत्वं दृष्टम्, न च युक्तमिति पूर्वं प्रतिपादितम्, अतोऽसामर्थ्यान्नित्यं सिध्यतीति? तदेतन्नित्येऽपि समानमसिद्धं च । तथा हि-नित्यस्यापि सम्बन्धस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टमिति समानम्, हस्तकम्पादीनामनित्यत्वेऽपि प्रतिपादकत्वं दृष्टमित्यदृष्टमसिद्धम्।अत एवायुक्तत्वमसिद्धम्। नित्यस्य चक्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति तस्यैवायुक्तमिति यत् किञ्चिदेतत् ॥ २६६४-२६६५॥ एवमार्थपत्तेरनैकान्तिकत्वमुपसंहृत्य बाधकं प्रमाणमुपसंहरति
तद् गवाश्वादयः शब्दा नित्यसम्बन्धयोगिनः। सङ्केतसव्यपेक्षत्वान्नैव गाव्यादिशब्दवत्॥२६६६॥
तदिति तस्मात्। नित्यसम्बन्धयोगिन इति। नेति सम्बन्धः । प्रयोगरचना तु पूर्वमेव दर्शिता ॥ २६६६॥ १. ०मनभिज्ञातात्-जै०।
२. नेति किलार्थे। ३-३. प्रवर्तेत एतन्न नाम दर्शितं.-पा०, निश्चितं-गा। ४. किञ्चिदिति-पा०, गा०।