________________
६०४
तत्त्वसंग्रहे
अभ्युपगम्यापि सङ्केतसापेक्षत्वम्, दोषान्तरमाह
अर्थद्योतनहेतोश्च संकेतस्य नराश्रयात्।
शक्तावनरजन्यायामपि मिथ्यात्वसम्भवः ॥ २६५७॥ अपि नामासङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णो भवता, तत्र यथा क्वचित् तैः प्रयुक्ताः सङ्कीर्यन्ते शब्दाः, तथा सर्वार्थसाधारणाः सन्तो वैदिकाः [G.711] क्वचित्तैरिच्छावशात् संमिताः किं न सङ्कीर्येरन्; तेषां पुंसां तत्त्वापरिज्ञानात् ! तथाहीच्छावशात् समयः, सा च तेषामतत्त्वविदां स्वातन्त्र्येण प्रवर्त्तमाना केन नियम्येत। ततश्च स्वतन्त्रेच्छाभावी समयोऽपि स्वैरी वैरी च किमिति विरुद्धमर्थं परिहरेत् !॥ २६५७॥ नानार्थद्योतनशक्तिपक्षमभ्युपगम्य, दोषान्तरमाह
नानार्थद्योतने शक्तिर्भवत्वेकस्य हि ध्वनेः। नाग्निहोत्रादयस्त्वर्थाः सर्वे सर्वोपयोगिनः॥ २६५८॥ . तदिष्टविपरीतार्थद्योतनस्यापि सम्भवात्। । .
नित्यशब्दार्थसम्बन्धकल्पना वो निरर्थका ॥ २६५.९॥ . यद्यपि शब्दानां नानार्थप्रतिपादनसामर्थ्यमस्ति, न त्वर्थानां सर्वार्थक्रियाकारित्वम्; प्रतिनियतत्वात् कार्यकारणभावस्य। अन्यथा हि न कश्चिद्विघाती स्याद्, अविघाती वा। ततश्च प्रतिनियतार्थक्रियासाधनेऽर्थे प्रतिपिपादयिषिते सति सर्वार्थसाधारणस्य शब्दस्येष्टार्थविषयमेव समयं समयकृत् करोतीति कुत एतल्लभ्यम् ! तस्मान्मिथ्यात्वसम्भवान्नित्यसम्बन्धकल्पा व्यथैव ॥ १६५८-२६५९॥ पुनरप्यानर्थक्यमस्य दर्शयन्नाह
संकेते च व्यपेक्षायां नित्यसामर्थ्यलक्षणः। किमकारण एवायं सम्बन्धः, परिपोष्यते॥३६६०॥ सिद्धोपस्थायिनस्तस्य न हि कश्चित् समीक्ष्यते।
संकेते' व्यतिरेकेण' व्यापारोऽर्थावबोधने॥ २६६१॥ यदि सत्तामात्रेण सम्बन्धोऽर्थप्रतीतिहेतुः स्यात्, तदा सङ्केतानभिज्ञस्यापि स्यादित्यवश्यं समयापेक्षिता तस्येष्टव्या। ततश्च समयस्याप्यर्थप्रतीतिहेतुत्वेऽङ्गीक्रियमाणे स किमकारणं सिद्धोपस्थायी नित्यसम्बन्धोऽपरः पोष्यते! तथा हि-इयानेव सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्, तच्चेत् समयेन क्रियते तदा किमपरनित्यसम्बन्धकल्पनया। न चापि तस्यानाधेयातिशयस्य काचिदपेक्षेति शतशश्चर्चितम् । अदृष्टसामर्थ्यस्य च हेतुत्वकल्पने हन्त 'हरीतकीं प्राप्य देवता विरेचयन्ति' इति किं न कल्प्येत! ॥ २६६०-२६६१ ॥ [G.712] तथा हीत्यादिना सम्बन्धस्य तामेव व्यापारासिद्धिं दर्शयति
तथा हि व्यवहारोऽयं न दृष्टः समयं विना।
तस्मात् सम्बन्धसिद्धिश्चेत्यनर्थेयं परम्परा ॥ २६६२॥ तस्मादिति सङ्केतात् । अनर्थेयं परम्परेति । अदृष्टसामर्थ्यस्य हेतुत्वकल्पनेऽनवस्था१. शक्तावितर०-पा०, गा०।
२-२. सङ्केतव्यति०- पा०, गा०।