________________
६०३
श्रुतिपरीक्षा अन्यथैवेत्यादिना दूषणमाह
अन्यथैवोपपन्नत्वाच्छक्तिर्बोद्धं न शक्यते।
शब्दात् सामयिकाद् यस्मात् प्रतिपत्तिरनाकुला॥२६५१॥ अनेनार्थापत्तेरनैकान्तिकतामाह; विनापि नित्यसम्बन्धं प्रतिपत्तिसम्भवस्य प्रतिपादितत्वात् ॥ २६५१॥
न केवलं साधकप्रमाणाभावात् तत्कल्पना न युक्ता, प्रमाणबाधितत्वादपि न युक्तेति दर्शयन्नाह
शक्तिनित्यत्वपक्षे तु संकेतादि व्यपेक्षते। न किञ्चिदिति शब्दार्थप्रतिपत्तिः सदा भवेत्॥२६५२॥ समयान्तरभावे' च कलिमार्यादिशब्दवत्।
नान्यार्थबोधकत्वं स्याद् ध्वनेर्नियतशक्तितः॥२६५३॥ [G.710] प्रयोगः-ये सङ्केतापेक्षार्थप्रकाशना न ते नित्यसम्बन्धयोगिनः, यथा गाव्यादिशब्दाः । सङ्केतापेक्षार्थप्रकाशनाश्च गवादयो लौकिकवैदिकाः शब्दा इति विरुद्धव्याप्तोपलब्धिः; सापेक्षत्वस्य नित्यसम्बन्धयोगित्वविरुद्धेनानित्यसम्बन्धयोगित्वेन व्याप्तत्वात् । एतच्च प्रमाणं पश्चात् करिष्यते, अत्र तु व्याप्तिमात्रस्य प्रसाध्यते। तथा हि-शक्तिलक्षणेनार्थप्रतिपत्तिहेतुना सम्बन्धेन नित्यसम्बन्धयोगिनः शब्दा इष्टाः । सा च शक्तिर्नित्यत्वादनुपकार्येति न किञ्चित् सङ्केतादि व्यपेक्षते। ततश्च तद्भाविनी शब्दार्थप्रतिपत्तिः सर्वदा भवेत्॥ २६५३॥
नानार्थद्योतनायैव शक्तिरेका यदीष्यते। .: भिन्ना वा शब्द एकस्मिन् सकृन्नानार्थविद्भवेत्॥२६५४॥
किञ्च-सा शक्तिरेकार्थनियता वा भेवत्, नानार्थनियता वा, तत्रापि नानार्थनियमपक्षे किमेकस्य शब्दस्य नानार्थद्योतिका शक्तिरेकैव, आहोस्विदनेका-इति विकल्पाः । तत्राद्ये पक्षे यदेतद्देशकालादिभेदेन सङ्केतान्तरे क्रियमाणे सति ध्वने: शब्दस्यान्यार्थबोधकत्वं दृष्टम्, यथा-कलिमार्यादिशब्दानां द्रविडार्यदेशयोर्यथाक्रममन्तकालवर्षोपसर्गाद्यभिधायिनाम्, तन्न प्राप्नोति; नियतशक्तिकत्वात्, चक्षुरादिवत्। न हि चक्षुः सङ्केतवशाद् रसाधुपलम्भाय नियोगमर्हति । द्वितीयेऽपि पक्षे एकस्माच्छब्दाधुगपत् सर्वेषां पुंसां शब्दार्थप्रतिपत्तिप्रसङ्गः। तद्दर्शयति-शब्द एकस्मिन्नित्यादि ॥ २६५२-२६५४ ॥ अत्रैव दोषान्तरमाह
अर्थद्योतनशक्तेश्च सर्वदैव व्यवस्थितेः। तद्धेतुरर्थबोधोऽपि सर्वेषां सर्वदा भवेत्॥२६५५॥ तस्मिन् संकेतसापेक्षा शक्तिश्चेत् परिकल्प्यते।
ननूपकार्यपेक्ष्येत नोपकार्या च साऽचला॥२६५६॥ तस्मिन्निति अर्थबोधे। सेति शक्तिः। अचलेत नित्या। अयं चानुपकार्यत्वे हेतुः । ॥ २६५५-२६५६॥ १-१.केवलसाधक०-पा०, गा० । २.समर्थान्तर०-पा०, गा० । ३.शब्दस्यापार्थ-पा०, गा० । ४. द्रविदार्य-पा०। ।