________________
६०२
तत्त्वसंग्रहे . ऐक्ये तु किनिमितोऽयं विभाग उपवर्ण्यते॥२६४७॥ [G.708] यादृश एतत्कार्यकारणभावलक्षणस्तादृशो यस्मात् सम्बन्धोऽस्ति तस्मात् केचिद् बुध्यन्त इति युक्तं स्यात्। तस्य नियतज्ञानोत्पादकत्वेन स्थितत्वात्। भवदीये तु सम्बन्धे सर्वमयुक्तमिति दर्शयति-तावकीन इत्यादि। तथा हि-शक्तिलक्षणसम्बन्ध इष्यते, जनकं च रूपं शक्तिरुच्यते। सा च नित्यैकस्वभावत्वेनेष्टाऽर्थबोधजनने च नियता न' तस्यार्थबोधनियता सती किमनवधिरिष्टा कतिपयपुरुषावधिरहिता? आहोस्विन्न?–इति पक्षद्वयम् । प्रथमे पक्षे सर्वेषां युगपत् सर्वथा चार्थावधारणप्रसङ्गः। द्वितीयेऽपि पक्षे प्रतिनियतविज्ञानजनकस्वभावनियामको हेतुर्वाच्यः । कृतकानां हि भावानां प्रतिनियतकार्यजनकस्वभावस्य नियामकाः स्वहेतुप्रत्यया युक्ताः, न तु नित्यानामिति भावः। .
स्यादेतत्-नित्यानामपि प्रकृतिरेव सा तादृशी, येन प्रतिनियतं कार्यं जनयन्ति, न सर्वम्, न हि स्वभावाः पर्यनुयोगमर्हन्तीति? एवं तर्हि यदि स्वत एव तस्यायं स्वभावः परनिरपेक्षः, तदा सङ्केतग्रहणात् पूर्वं तथा विस्मृतसङ्केतस्य तस्यैव प्रतिनियतस्य प्रतिपत्तुः सर्वदा ज्ञानप्रवृत्तिः प्राप्नोति; तज्ज्ञानजनने नियतायाः शक्तेः सदाऽवस्थितत्वात्।
अथापि स्यात्-ज्ञापकत्वात् सम्बन्धलक्षणा शक्तिआता सती ज्ञानं जनयति, नांज्ञाता, तेन न भवति यथोक्तदोषप्रसङ्ग इति?.तदसम्यक्; यदि हि ज्ञाताज्ञातावस्थयोः परस्परं भेद इष्यते तदा नित्यत्वहानिः । अथाभेदः, तदा ज्ञातांज्ञातस्वभावद्वयविभागानुपपत्तिः, न ह्येकस्य वस्तुन एकपुरुषापेक्षया ज्ञातत्वमज्ञातत्वं च परस्परं विरुद्धं स्वभावद्वयं युज्यत इति ॥ २६४१२६४७॥
किञ्च–सति हि प्रतिपत्त्युपाये शक्तेफ़्तत्वं स्याद्, यावता स एव न सम्भवतिइति मन्यमानः पृच्छति
किञ्च केनाभ्यपायेन विज्ञाता शक्तिरिष्यते? [G.709] अर्थापत्त्येत्यादिना परस्योत्तरं विस्तरेण तावदाशङ्कते
अर्थापत्त्येति चेद् यस्मादयं न्याय इह स्थितः ॥२६४८॥ शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र पश्यति। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया॥२६४९ ॥ अन्यथानुपपत्त्या च वेत्ति शक्तिं द्वयाश्रिताम्।
अर्थापत्त्याऽवबुध्यन्ते सम्बन्धं त्रिप्रमाणकम्॥२६५०॥ तथा हि-सम्बन्धप्रतिपत्तेरयं न्यायः कुमारिलेन वर्णितः- "यस्मात् प्रथमं तावत् प्रत्यक्षेण शब्दं वृद्धं च शब्दस्याख्यातारमभिधेयं च वाच्यं वस्तु पश्यति, ततः पश्चादनुमानेन चेष्टालक्षणेन लिङ्गेन श्रोतुः प्रतिपन्नत्वं पश्यति-अवधारयतीत्यर्थः । करणं कारकं कृत्वा चेष्टाया अनुमानत्वमुक्तम्। ततश्च पश्चादर्थापत्त्या द्वयाश्रिताम् शब्दार्थाश्रितां शक्तिं वेत्ति । अर्थापत्त्या तु साक्षादवबुध्यन्ते'' इति, अथोऽर्थापत्त्याऽवबुध्यन्त इत्युक्तम्। त्रिप्रमाणकमिति। प्रत्यक्षानुमार्थापत्तिलक्षणानि त्रीणि प्रमाणानि यस्याधिगमाय भवन्ति स तथोक्तः ॥ २६४८-२६५० ॥ १-१. ततश्चार्थ-पा०, गा०।