________________
श्रुतिपरीक्षा
६०१ भूतानाम् आदित्यग्रहादीनां काचित् गुणवत्त्वव्यतिरिक्ता भवता मीमांसकेन जातिरिष्यते। नापि दृश्यत्वेनेष्टा सती सा दृश्यते। अव्यतिरिक्ताऽपि न युज्यते; तेषामपि घटादीनामाकृतिस्वरूपवन्नित्यत्वप्रसङ्गात्। अथापि भिन्नाऽभ्युपगम्यते? तदा सम्बन्धाभावदोषः । भिन्नानां हि तदुत्पत्तिलक्षण एव सम्बन्धो भवेत्, ततश्च तदुत्पत्तौ सत्यां जातेरनित्यता प्राप्नोति; उत्पत्तिधर्मकत्वाद्, घटवत्।
क्वचित्तु नित्यतेत पाठः । तत्रायमर्थः- यदि घटादीनां ततो जातेः सकाशादुत्पत्तिरङ्गीक्रियते, तदा घटादीनां नित्यता प्राप्नोति; नित्यं कारणस्य सन्निधानान्नित्यमुत्पत्तिः प्राप्नोतीत्यर्थः । उभयस्वभावपक्षे उभयपक्षभावी दोषः, एकत्वहानिप्रसङ्गश्च; वस्तुनः स्वभावद्वयानुपपत्तेः । एवं हि द्वे एव ते वस्तुनी कथिते स्याताम्, नैकमुभयात्मकम्। अनुभयपक्षे वस्तुत्वहानिप्रसङ्गः । एकस्य विधिप्रतिषेधायोगश्चेति वाच्यम्।
इमे दोषा इति। सम्बन्धासिद्धिनित्यतादिप्रसङ्गलक्षणाः। नित्यमब्धारणादिकार्यप्रसङ्गश्चाधिको दोषः ॥ २६३५-२६३८॥ .. यदुक्तम्- "शक्तिरेव हि सम्बन्धः" (तत्त्व० २२६१) इत्यादि, तत्राह
शक्तिरेव च सम्बन्धो भेदश्चास्या न चेन्मतः। शब्दार्थानां भवेदैक्यं शक्तेरव्यतिरेकतः॥२६३९॥ व्यतिरेकेऽपि सम्बन्धस्तस्यास्ताभ्यां न कश्चन।
तदुत्पत्तौ न नित्यत्वं न चान्या वस्तुनो गतिः॥२६४०॥ न चान्येति । उभयानुभयस्वभावलक्षणे पूर्ववद्दोषप्रसङ्गात् ॥ २६३९-२६४० ॥ यदुक्तम्- "सम्बन्धाख्यानकाले च" (तत्त्व० २२६३) इत्यादि, तत्राह
सम्बन्धाख्यानकाले तु गोशब्दादादावुदीरिते। केचित् सम्बन्धबुद्धयाऽर्थ बुध्यन्ते नापरे तथा॥ २६४१॥
यस्मात् सम्बन्धसद्भावाद् यादृशः स प्रकाशितः। . . . तावकीने तु सम्बन्धे सर्वोऽर्थमवधारयेत्॥ २६४२॥
शक्तिरेव हि सम्बन्धो नित्या युष्माभिरिष्यते। .. ‘सा चार्थबोधजनने नियताऽनवधिर्न वा॥२६४३॥ नियतानवधौ सर्वः किमर्थं नावधारयेत्। सावधावपि को हेतुः प्रकृतिश्चेत् स्वतस्तथा॥२६४४॥ संकेतग्रहणात् पूर्वं तस्य चास्मरणे पुनः। एकस्यैव प्रवृत्तं किं विज्ञानं न प्रवृत्तिमत् ॥ २६४५॥ तज्ज्ञानजन्मनियता सा हि शक्तिरवस्थिता। अथ ज्ञातैव सा शक्तिर्नियता परिकल्प्यते॥२६४६॥ ज्ञाताऽज्ञाता च भिन्ना चेन्नित्यत्वमवहीयते।
१. भवेदेका-पा०, गा०। ३. न परे-पा०, गा०।
२. शक्तिरव्यति०-पा०, गा०॥ ४-४. तत्र वृत्तिमत्-पा०, गा०॥