________________
६००
तत्त्वसंग्रहे तुल्यप्रत्यवमर्शश्च भेदेऽपि न विरुध्यते॥२६२९॥ द्वितीय एवात्र पक्षः । न च भेदधीप्रसङ्गः; भेदेऽपि तुल्यप्रत्यवमर्शहेतुत्वाविरोधात्। अतोऽनैकान्तिकमेतद्, यदुक्तम्- " भिन्नश्चेद्भेदधीर्भवेत्" (तत्त्व० २२५४) इति ।। २६२९ ॥
स्यादेतत्- क्षणभङ्गोऽयमस्माकमसिद्धः, तत्कथमुच्यते-क्षणभङ्गतो भिन्न इति? आह
क्रमेण जायमानाश्च धियस्तद्विषयाः स्फुटम्।
तस्याप्याहुः क्रमं तासामक्रमो ह्यन्यथा भवेत्॥२६३०॥ [G.706] तस्यापति सम्बन्धस्य।क्रमममाहुः प्रतिपादयन्तीत्यर्थः । अक्रमो यन्यथा भर्वेदति। धियामिति सम्बन्धः । एतच्च विपर्यये बाधकं प्रमाणम्। प्रयोगश्च पूर्ववद् बोध्यः ॥ २६३०॥ "वक्तृश्रोतृधियोर्भदाद् व्यवहारश्च दुष्यति" (तत्त्व० २२५५) इत्यादावाह
सकृदेव बहूनां तु संकेतकरणे सति। समयो नेष्यते भिन्नो नीलायेकक्षणो यथा॥२६३१॥ वक्तुरन्यो न सम्बन्धो बुद्धौ श्रोतुर्न चापरः। एकरूपा च सा यस्य द्वयोरप्यनुवर्त्तनात्॥२६३२॥ श्रोतुः कर्तुश्च सम्बन्धं वक्ता पूर्वं प्रपद्यते। पूर्वोपलब्धो यस्तेन तमेव हि करोत्यसौ ॥२६३३॥ एकाकारा यतस्तस्य वृत्ता प्रत्यवमर्शधीः।
तस्माद् भिन्नेऽपि शब्दादावेकत्वं सोऽध्यवस्यति॥२६३४॥ यथा नीलादिक्षणो बहुभिर्दृश्यमानोऽपि न भिद्यते, एवं बहूनां सङ्केतकरणेऽसति न सम्बद्धो भेत्स्यति, किं पुनर्द्वयोः! सर्वेषां तुल्यप्रत्यवमर्शस्थितत्वादिति भावः। अतो न वक्तृश्रोत्रोरन्यः सम्बन्धो भवति ॥ १६३१-२६३४॥'
यदुक्तम्- 'घटादवपि तुल्यं चेन सामान्यप्रतिषिद्धितः' (तत्त्व० २२५७) इत्यादि, तत्राह
घटादावपि सामान्यं प्रागेव विनिवारितम्। न हि भूतगुणप्रख्या काचिदाकृतिरिष्यते॥२६३५ ।। न चास्याकृतिः सिद्धा शक्तिरब्धारणादिषु। तेषामपि हि नित्यत्वमाकृतेर्यद्यभेदिनः ॥२६३६॥ भेदे सम्बन्धदोषस्तु तदुत्पत्तौ त्वनित्यता। अतो नाकृतितो युक्ता शक्तिरब्धारणादिषु॥२६३७॥ घटादेर्व्यतिरेकेऽपि शक्तेर्दोषा इमे ध्रुवम्।
अब्धारणादि तत्कार्यं नित्यमेवं प्रसज्यते॥२६३८॥ [G.707] प्रागेवेति सामान्यपरीक्षायाम्। पुनरत्रैव सङ्क्षेपेण निराकरणमाह-न होत्यादि। १. यस्मात्-गा।
२. आदित्यजहादीनां-पा०; क्षितिजलादीनां-गा० । ३. कण्ठे-पा०; कार्यादिवत्-गा। ४. गुणव्यतिरिक्ता-पा०; गुणवत् व्यतिरिक्ता-गा० ।