________________
श्रुतिपरीक्षा
५९९ कार्यकारणतायोगस्ते एव तु तथोदिते॥२६२३॥ ते एवेति कार्यकारणभूते वस्तुनी। तथोदिते इति । कार्यकारणतेत्यादिना लाघवार्थम् ॥ २६२३॥
यद्येवम्, प्रतिपुरुषप्रयोगं तयोर्भेदात् कथमभिन्नसम्बन्धप्रतीतिर्वक्तृश्रोत्रोर्भवति, तथा हि-वक्तुरेवं भवति- 'य एव समयकाले मया गृहीतोऽर्थः शब्दो वा, तेनैव तमेवार्थं प्रतिपादयामि' इति, तथा श्रोतुरप्येवं भवति– 'तेनैव तमेवायमर्थं प्रतिपादयति' इति; अन्यथा भिन्नावरोधावस्थितयोः कथं व्यवहार: स्यात् ? इत्याह
ते च प्रत्येकमेकात्मरूपत्वेन जडैर्गते। - सङ्केतव्यवहाराप्तकालव्याप्तिरतो मता॥२६२४॥
जडैरिति भ्रान्तैः। गते इति गृहीते। सङ्केतव्यवहारभ्यामाप्तो व्याप्तश्चासौ कालश्चेति तथोक्तः, तस्य व्याप्तिः । कार्यकारणाभ्यामेकरूपाभ्यामिति' शेषः ॥ २६२४॥ [G.705] अथैक एव पारमार्थिकः सम्बन्धः कस्मानेष्यते, येन काल्पनिक एवेष्टः? इत्याह
एकस्तु वास्तवो नैव सम्बन्ध इह युज्यते।
असङ्कीर्णतयार्थानां भेदेऽसम्बन्धता भवेत्॥२६२५॥ सम्बन्धो भवन् भिन्नानां वा भवेद्? अभिन्नानां वा? न तावद्भिन्नानाम्; सर्वेषां स्वात्मनि स्थितत्वेनासङ्करात्। अभेदेऽप्येकमेव तद्वस्त्विति कस्य केन सह श्लेषो भवेत्, अतोऽसम्बन्धतता भवेत्॥ २६२५ ॥ .
यत्तु समयलक्षणसम्बन्धदूषणम् “समयः प्रतिम] च" (तत्त्व० २२५३) इत्यादिना, तत्र सिद्धसाध्यतां प्रतिपादयन्नाह- .
समयः प्रतिम] च प्रत्युच्चारणमेव च।। इत्याद्यतः परेणोक्तं परनीतिमजानता॥२६२६॥ समयो हि न सम्बन्धो नरधर्मतया तयोः। द्योतकः स तु तस्येति सम्बन्धः स्यान्न मुख्यतः ॥२६२७॥
प्रत्युच्चारणमेनं च न परे प्रतिजानते। .." ईशादेः प्रतिषिद्धत्वात् सर्गादौ न च तत्कृतम्॥ २६२८॥
अनिष्टापत्तिर्हि दूषणमुच्यते, न च बौद्धेन समयः शब्दार्थयोर्मुख्यः सम्बन्ध इष्टः; तस्य पुरुषधर्मत्वात् । तस्य च दूषणे सति नेष्टक्षतिः काचित् । न चान्यधर्मोऽन्यस्य सम्बन्धो भवति; अतिप्रसङ्गात्। यच्चोक्तम्-प्रत्युच्चारणमेव वा क्रियते, जगदादौर वेतिपक्षद्वयम्, तस्यानभ्युपगमादेवादूषणम्। यदाह- प्रत्युच्चारणमित्यादि। एनमिति समयम्। पर इति बौद्धाः । ईशारिति ईश्वरब्रह्मादेः ॥ २६२६-२६२८॥ यदुक्तम्="प्रत्येकं वापि सम्बन्धः" (तत्त्व० २२५४) इत्यादि, तत्राह
प्रत्येकं यश्च सम्बन्धः सम्भिन्नः क्षणभङ्गतः। १. ०कारणाभ्यासैक०- पा०, गा०।
२-२. जगदादयैवेति-पा०, गा०। ३. तदाह-पा०, गा०।
४. सन्निभ:- पा०।