________________
५९८
तत्त्वसंग्रहे ___एवं मन्यते-यद्यपि विवक्षामात्रेण सह कार्यकारणभावो निश्चितः, विवक्षाविशेषण तुं परसन्ताने समयादृते न निश्चेतुं शक्यत इत्यतस्तन्निश्चयाय समयः क्रियते । ननु च समयादपि कथमसौ निश्चेतुं शक्यते, तथा हि- यदि समयकाले परविवक्षाविशेषः प्रतीत्युपायः सम्भवेत्, तदाऽसौ समयस्तत्र कृतः पश्चाद्व्यवहारकाले विवक्षाविशेषप्रतीहेतुर्भवेत्, यावता स एवाभ्युपायो नास्ति । तथा हि-नानुच्चार्य शब्दं समयः क्रियते, ततश्च तत एव शब्दाद् विवक्षाविशेषप्रतिपत्तावितरेतराश्रयदोषः स्यात् । तथा हि-समयवशाच्छब्दो विशेषद्योतकः, समयश्च विशेषाविशेषप्रतिपत्तिमन्तरेण न शक्यत इति स्पष्टमितरेतराश्रयत्वम् ? नैष दोषः; यदा सर्व एवायं शाब्दो व्यवहार: स्वप्रतिभासानुरोधेनैवेष्यते भ्रान्तत्वात्; तैमिरिकद्वयद्विचन्द्रव्यवहारवत्, तदा का चोद्यचञ्चुता ! न च सर्वत्र शब्द एव विवक्षाविशेषप्रतीतिहेतुः, अन्यथाऽपि कश्चिच्छृङ्गग्राहिकया, प्रकरणादिना चार्थविशेषोपदर्शनेन च विवक्षाविशेषमावेद्य समयं कुर्यादिति नेतरेतराश्रयत्वम्।
किञ्च-भवतो विधिवादिनस्तुल्यं चोद्यम्-परप्रतिपत्तेरप्रत्यक्षत्वात् कथं वक्तृश्रोत्रोरेकार्थप्रतिपत्तिनिश्चय इति। न चैकार्थप्रतिपत्तिनिश्चयन्तररेण समयो युक्त; तस्मात् योऽत्र भवतः परिहारः स ममापि भविष्यति।
स्यादेतत्-शब्दस्य विवक्षायामसमितत्वात् कथं तया सह सम्बन्धः समयान्निश्चीयते, न ह्यत्र समयः कृतोऽन्यार्थद्योतको भवति; अप्रसङ्गात् ? नैष दोषः; विवक्षाशब्देनातत्परिवर्ती अर्थाकारो वा स्वरूपतया व्यस्तो यः स इहाभिप्रेतः; [G.704) परमार्थतस्तस्य विवक्षास्वभावत्वात्। स एवेह विवक्षाविशेषोऽभिप्रेतः । तत्रैव च समयो न स्वलक्षणे, स एव शब्देनाभिधीयते; ततस्तदाकारविकल्पोत्पत्तेः । केवला तु विवक्षा न शब्देनाभिधीयत इत्युक्तम् ॥ २६२० ।।
यद्येवम्, यदि विवक्षापरिवर्तिनाऽर्थाकारेण कार्यकारणलक्षण एव सम्बन्धः शब्दस्य, तत् कथं तत्र तत्राचार्याः सामयिकं समयं वा शब्दार्थसम्बन्धमाहुः? इत्याह
विवक्षावर्तिनाऽर्थेन कार्यकारणतात्मकः। शब्दानामेष सम्बन्धः समये सति जायते॥२६२१॥ तेन सामयिकः प्रोक्तस्तेन च द्योतनादतः।
समयोऽप्युच्यते तेषां सम्बन्धो न तु मुख्यतः ॥२६२२॥ श्रोतृचेतसि समये सति जायते भवतीति सामयिकः। अध्यात्मादित्वात् (पा.सू.वा. ४.३.६०) ठञ् । यद्यपि तत्र भवतिः सत्तावसनो गृहीतः, तथापि परमार्थतः सत्ताजन्मनोरभेदात्तदेव भावत्वेन विवक्ष्यते। वक्तृसन्ताने च समयेन द्योतनादुपचारात् समय उच्यते; तस्य प्रतिनियतकालवर्त्तित्वेन तत्कालासम्भवात् ॥ २६२१-२६२२ ।।
ननु यदि परमार्थतो वस्तुनः सम्बन्धो नास्तीत्युक्तम्, कार्यकारणतालक्षणस्तर्हि कथं भवति? इत्याह
कार्यकारणभूताभ्यां वस्तुभ्यामन्य एव न। १. रोहाचशता-पा०।
२. प्रत्यकृत्वात्-पा०. गा० । ३. तस्य-पान गा.
४. समयो न-पा०/