________________
श्रुतिपरीक्षा
५९७
बुद्धिः संवृत्ति:, तया यद्व्यवस्थापितं रूपं तत् सांवृतमुच्यते संवृत्तिसत्त्वम् । तदेव न परमार्थिकम्; तस्यासत्त्वात्। भ्रान्तस्य च ज्ञानस्य सर्वस्यैव निर्विषयत्वात् ॥ २६१३-२६१५॥
अथापि स्याद् - विना पारमार्थिकनैकत्वेन कथं विधिप्रतिषेधलक्षणं व्यवहारमारोपवशेन शब्दाः सम्पादयन्ति ? इत्याह
तथा हि हस्तकम्पादेर्नैकत्वं बुद्धिभेदतः । शीघ्रमन्दादिभेदेन तद्वयक्तिश्च निरीकृता ॥ २६१६ ॥ सामान्यं न च तत्रैकमनुगाम्युपलक्ष्यते ।
सङ्के तात् प्रतिषेधादिगत्यङ्गं च भवत्यसौ । २६१७॥ हस्तकम्पादेरित्यादिशब्देनाक्षिनिकोचादिपरिग्रहः । शीघ्रमन्दादिभेदेनेति । बुद्धिभेदत इति सम्बन्धः । न चायं शीघ्रादिभेदो व्यञ्जककृतः; व्यक्तेर्निषिद्धत्वात् । तद्व्यक्तिरिति नित्यव्यक्तिः । न च सामान्यवशाद् व्यवहाराङ्गता; तस्याप्रसिद्धत्वात् । अप्रतीतस्य सामान्यस्य न युक्तं व्यवहाराङ्गत्वम्; सर्वदा व्यवहारप्रसङ्गात् । प्रतिषेधादिगत्यङ्गमिति । आदिशब्देन विधानाभ्यनुज्ञानाभ्यर्थनादीनां ग्रहणम् । तेषां गतिः = प्रतीतिः, तस्या अङ्गम् = कारणम्, हस्तकम्पादिर्भवति । तद्वच्छब्दोऽपि भविष्यतीति शेषः ॥ २६१६-२६१७॥
यदुक्तम्– “तस्माच्छब्दार्थसम्बन्धो नित्य एवाभिधीयते" (तत्त्व० २२५१ ) इति,
तत्राह
साक्षाच्छब्दा न बाह्यार्थप्रतिबन्धविवेकतः ।
गमयन्तीति च प्रोक्तं विवक्षासूचकास्त्वमी ॥ २६१८ ॥
न हि कंश्चिच्छब्दार्थयोर्वास्तवः सम्बन्धोऽस्ति, यस्य नित्यत्वमनित्यत्वं वा स्यात् । तथा हि. न बाह्यमर्थं शब्दाः प्रतिपादयन्ति तेन सह प्रतिबन्धाभावादिति पूर्वं शब्दपरीक्षायां • निवेदितम्। प्रतिपादयतामतिप्रसङ्गः स्यात् । यद्येवम्; किं तर्हि प्रतिपादयन्ति ? इत्याहविवक्षासूचकास्त्वमति। विवक्षामपि न वाच्यतया प्रतिपादयन्ति, किं तर्हि ? लिङ्गतया सूचयन्ति। अत एव सूचका इत्युक्तम् । तथा हि- शब्दादुच्चरितादर्थाध्यवसायी विकल्पो जायते, न विवक्षाध्यवसायी, यश्च न शब्देन ज्ञातेनाध्यवसीयते, स कथं शब्दार्थः ! ॥ २६१८ ॥ [G.703] यद्येवम्, वितक्षयाऽपि संह कस्तेषां सम्बन्धो येन तां लिङ्गत्वेन सूचयेत् ? इत्याहतस्याः कार्यतया ते हि प्रत्यक्षानुपलम्भतः ।
निश्चिता इति तेनात्र कार्यकारणता स्फुटा ॥२६१९॥
तस्या विवक्षायाः कार्यत्वेनात्मनि प्रत्यक्षानुपलम्भाभ्यां शब्दा निश्चिता इति कार्यकारणलक्षण एव सम्बन्धः ॥ २६१९॥
यद्येवम्, समयस्तर्हि व्यर्थः, प्रत्यक्षानुपलम्भाभ्यामेव कार्यकारणभावस्य निश्चितत्वात् ? इत्याह
-
-
कार्यकारणभावश्च समयाद् येन निश्चितः ।
स विवक्षां प्रपद्येत शब्देभ्यो हस्तकम्पवत् ॥ २६२० ॥