________________
५९६
तत्त्वसंग्रहे
नभसो वस्तुत्वासिद्धर्नाभिव्यक्तिर्युक्ता; स्प्रष्टव्याभावमात्र एव तत्प्रज्ञप्तेः । तथा ह्यन्धकारे प्रतिघातमविदन्त आकाशमेव नात्र किञ्चिदिति वक्तारो भवन्ति। येषामपि वस्तुसदाकाशं तेषां तदतीन्द्रियमेवेति कथं व्योम्नि धीर्भवेत् ! अत एवाह- अत्यक्षत्वाच्चेति । यद्येवं मृदि खातायां किं तदुपलभ्यते? इत्याह- आलोकः स तथेत ॥ २६०७॥ सत्यप्याकाशस्य वस्तुत्वेऽभिव्यक्ति व युज्यते इति दर्शयन्नाह
किञ्च शब्दवदाकाशेऽप्यभिव्यक्तिर्न युज्यते। ज्ञानं हि व्यक्तिरेषा च नित्यं स्याद्धेतुसन्निधेः॥ २६०८ ।। यदा' च व्यञ्जकः शब्दे न कथञ्चित् प्रकल्प्यते। तन्नात्रैवं परोपाधिः शब्दबुद्धौ मतिभ्रमः ॥ २६०९॥ नातो दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम्।
ध्वनीनां व्यञ्जकत्वे हि तत्स्यात्, तच्च निराकृतम्॥२६१०॥ [G.701] तत् स्यादिति । दीर्घादीनां ध्वनिधर्मत्वम्। तच्चेति ध्वनीनां व्यञ्जकत्वम्॥ २६०८२६१०॥ यदुक्तम्- "न चादृष्टार्थसम्बन्धः" (तत्त्व० २२३३) इत्यादि, तत्राह
अत्यन्तभेदिनोऽप्येते तुल्यप्रत्यवमर्शने। शक्ताः शब्दास्तदर्थाश्चेत्यसकृच्चर्चितं पुरा॥२६११॥ नातो दृष्टार्थसम्बन्धः शब्दो भवति वाचकः।
संवृत्त्या वस्तुतस्त्वेष वाचको नेति साधितम्॥२६१२॥ अयमत्र सङ्क्षेपार्थः-यदि पारमार्थिकस्यार्थशब्दयोर्वाच्यवाचकभावस्याभावप्रसङ्गः क्रियते भवता, तदा सिद्धसाध्यता। तथा हि-विस्तरेण जातिस्वलक्षणादीनां वाच्यवाचकत्वं शब्दपरीक्षायां निराकृतम्। अथ सांवृतस्यापि? तदानैकान्तिकता। तथा हि-अत्यन्तभेदिनोऽपि केचिदर्थाः प्रकृत्यैकारप्रत्यवमर्शज्ञानस्य हेतुतां प्रतिपद्यमानाः सांवृतं शब्दार्थयोर्वाच्यवाचकभावं सम्पादयिष्यन्तीति प्रागेवा पोहचिन्तायां प्रतिपादितम् । तस्मादपोहशब्दार्थवादिनो बौद्धान् प्रति सर्वमिदमुच्यमानमत्यन्तपरिलघुतया परिप्लवत एव केवलमिति ॥ २६११-२६१२ ।। संवृत्या वाचकत्वस्योपपत्तिमाह- .
मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः। जातिस्वलक्षणादीनां वाच्यवाचकतास्थितेः॥२६१३॥ तद्भ्रान्त्या व्यवहर्तारो वैलक्षण्येऽपि वस्तुतः । गोशब्द एक एवेति मन्यन्ते समबुद्धयः॥२६१४॥ तस्माद् द्विजातिना प्रोक्तं बह्वसम्बद्धभाषिणा। .
शब्दभेदं पुरस्कृत्य तत्तत् सर्वमनास्पदम्॥ २६१५ ॥ |G.7021 पररूपं हि स्वप्रतिभासेन यया संवियते' बुद्ध्या यथार्थमप्रकाशनात् सा कल्पिका १. ख्यातायां-जै।
२. यथा-पा०, गा०।
- ३. सति भ्रमः-पा०, गा०। 3. स्ववृत्त्या-पा० गाल।
५. संवृयते-पा०, गा०।