________________
५९५
श्रुतिपरीक्षा दूषितमपि पुनरपि निवर्त्य 'सत्यपि नित्यानां व्यञ्जके दुष्ट एवायं पक्षः' इति चिख्यापयिषया दूषयन्नाह
व्यञ्जकध्वन्यधीनं च भवत्वस्योपलम्भनम्। यथावस्थितरूपस्य किन्तु तस्य ग्रहो भवेत्॥२६००॥ नान्यथा तद्ग्रहोऽयं स्यात् तद्रूपाप्रतिभासनात्। व्याप्ताशेषनभोभागो न हि शब्दः प्रकाशते॥२६०१॥ तद्धवनेर्भिनदेशत्वं श्रुतिः किमनुरुध्यते।
व्यक्तस्तु प्रतिभासेत स्वात्मनैव घटादिवत्॥२६०२॥ [G.700] यदि हि शब्दस्य व्यञ्जकाधीनं ग्रहणम् , तत्किमिति यथाऽसौ यावव्योम स्थितस्तथा न गृह्येत ! एवं तस्य तद्ग्रहणं भवेदन्यथाऽतिप्रसज्यत इत्यावेदितं पूर्वम्। न च यावद्वयोम शब्दो गृह्यते। तस्माद् ध्वन्यनुरोधे न शब्दः श्रुतेर्युक्तः, किंतर्हि ? यस्यासौ श्रुतिस्तमेव शब्दं तस्या अनुरोद्धं युक्तम् । एवं तस्यासौ सिद्ध्येन्नान्यथा, ततश्च घटादिवत् सर्वात्मनैव प्रतिभासेतेति सङ्क्षेपार्थः ।। २६००-२६०२॥ ___एतच्च सर्वं नित्यस्याव्यञ्जकमभ्युपगम्योक्तमिति दर्शयन्नाह
सर्वं च प्रक्रियामात्रमिदमुक्तं न कारणम्।
व्यञ्जकानामसामर्थ्य व्यक्त्ययोगाच्च साधितम्॥ २६०३॥ व्यक्त्ययोगादिति व्यतिरिक्ताव्यतिरिक्तयोः ॥ २६०३ ॥ "देशभेदेन भिन्नत्वम्" (तत्त्व० २२२५) इत्यादावाह. प्रत्यक्षस्तु स एवेति प्रत्ययः प्राङ् निराकृतः।
देशभेदेन भिन्नत्वमित्येतत् तदबाधितम्॥२६०४॥ "पर्यायेण यथा चैकंः" (तत्त्व० २२२६) इत्यादावाह
. पर्यायेण च यः कश्चिद्भिन्नाद देशाद व्रजत्यसौ।
भिद्यते क्षणभङ्गित्वान्नान्यथा गतिमान् भवेत् ।। २६०५॥ अनित्यस्य हि देशान्तरोत्पत्तिरेव गतिः, न तु नित्यस्य; एकदेशवर्त्तिस्वभावमविजहतो देशान्तरगमनायोगात्। त्यागे वा नित्यत्वहानिप्रसङ्गात् ॥ २६०५ ॥ एतदेव दर्शयति
पूर्वदेशावियुक्तस्य स्वभावस्यानुवर्त्तनात्।
न हि देशान्तरप्राप्तिः स्थैर्ये तस्योपपद्यते॥२६०६॥ "यथा महत्यां खातायाम्" (तत्त्व० २२२९) इत्यादावाह. नभसो निरुपाख्यत्वान्नाभिव्यक्तिः प्रकल्प्यते।
अत्यक्षत्वाच्च खातायामालोकः१० स तथेष्यते॥२६०७॥ १. तदा— पा०, गा०। २-२. ०रोधेन शब्दश्रुतेर्युक्ता-पा०; ०रोधेन न शब्दश्रुतिर्युक्ता-गा। ३. एवं च-गा०। ४-४. पाठोऽयं पा० गा० पुस्तकयो स्ति। ५. च-पा०, गा० । .६-६. पाठोऽयं पा, गा, पुस्तकयोनास्ति। ७-७. भिन्नदेशाद् व्रजन्नसौ-गा०। ८. सिद्ध्यति-पा०, गा०। ९......र्भवेत्-पा०; स्य गतिर्भवेत्-गा०। १०. खे नायमा०-पा०, गा०॥