________________
५९४
तत्त्वसंग्रहे न त्वेवं निश्चितः शब्द एकत्वेन कथञ्चन।
क्रमेण युगपच्चापि तन्नानात्वोपलक्षणात्॥ २५९७॥ प्रत्यभिज्ञायाः पूर्वपप्रामाण्स्य प्रतिपादितत्वादिति भावः ॥ २५९७ ॥ यौगपद्येन नानात्वं सिद्ध प्रतिपादयति
यदा हि गादिकं वर्ण वक्तारो बहवः सकृत्।
प्रयुञ्जते तदा भेदो विस्पष्टमुपलभ्यते॥ २५९८ ॥ विस्पष्टमिति । द्रुतमध्यविलम्बितादिभेदेन प्रतिभासनात् ।। २५९८ ॥ क्रमेणापि प्रतिपादयन्नाह
क्रमेण तु प्रयोगेऽस्य प्रत्यक्षेण न केवलम्। -
भेदोऽवगम्यते किन्तु लिङ्गादपि धियां क्रमात्॥२५९९॥ प्रत्यक्षेण न केवलमिति। तदापि षड्जादिभेदेनरे स्पष्टप्रतिभासिभेदानुभवात्। न चार्य व्यञ्जकभेदः; तस्य पूर्वं निरस्तत्वात्। लिङ्गादपति। अनुमानतोऽपीत्यर्थः । प्रयोगःयद्यदा न भवति न तदा तदविकलकारणं भवति, तथा रूपालोकमनस्कारादिप्रत्ययकलापेऽपि सति चक्षुर्विकलस्याभवच्चक्षुविज्ञानम् । न [G.699] भवन्ति चैकगकारादिविज्ञानोत्पत्तिकाले पश्चात्कालभावीनि तद्भावित्वेनाभिमतानि विज्ञानानीति व्यापकानुपलब्धिः । अविकलकारणत्वस्य भवनेन व्याप्तत्वात् तस्य चेहाभावः । ननु च सामान्येनाविकलकारणत्वमात्रस्य प्रतिषेधे सिद्धसाध्यता। तथा हि-नित्यस्य शब्दस्य कारणत्वेऽपि सहकारिकारणवैकल्यादनुत्पत्तिः पश्चात्कालभाविनां प्रत्ययानामिष्यत एव परेण ।
अथ विशिष्टेन शब्दाख्येन कारणेन यदविकलकारणत्वं तत्प्रतिषेधः साध्यते, तदाऽनैकान्तिकता हेतोः, दृष्टान्तश्च साध्यविकलः । न हि चक्षुर्विज्ञानं शब्दकारणवैकल्यान्न भवति, किं तर्हि ? चक्षुर्वैकल्यात् ? नैतदस्ति; सामान्येनैव साध्यम्, न च सिद्धसाध्यता। तथा हि- यदि नित्यस्य कारणान्तरापेक्षिता सम्भवेत् तदा सिद्धसाध्यता भवेत्; यावता सैव न सम्भवति, तस्य तेनानुपकार्यत्वात् । उपकारी ह्यपेक्ष्यः स्याद्, अन्यथातिप्रसङ्गः । तस्मादनपेक्ष्यस्य शब्दस्य कारणत्वाभ्युपगमे सर्वमेव तद्भाविविज्ञानमविकलकारणमेवेति सदैव भवेत् । अभावे तु तदभवद्विज्ञानं तस्यैव शब्दस्य वैकल्यं सूचयेदिति कथं सिद्धसाध्यता ! विशेषेणापि कारणवैकल्ये साध्ये नानैकान्तिकता, नापि दृष्टान्तस्य साध्यविकलता।
तथा ह्यमत्रार्थो विवक्षितः-यस्मिन् यन्न भवति तत्कारणं भवतो न भवति, यथा चक्षुर्विज्ञानं शब्दे सत्यप्यभवत् । सत्यपि च गकारादिशब्दस्वरूपविशेषे तद्भावित्वेनाभिमतानि ज्ञानानि न भवन्तीति व्यापकानुपलम्भः । अत्रापि नित्यस्यापेक्षानुपपत्तिर्विपर्यये बाधकप्रमाणवृत्तिः । न च कुशूलस्थेन बीजादिना व्यभिचारः; तस्याङ्करं प्रति मुख्यकारणत्वानुपपत्तेरित्यलं प्रपञ्चेन ॥ २५९९।।
यदुक्तं पूर्वम्- "व्यञ्जकध्वन्यधीनत्वात्" (तत्त्व० २२१०) इत्यादिना, तद्वस्तुतो
२-२. गादिवर्ण च-पा०, गा०।
१-१. नानात्वसिद्धिं-पा०, गा० । ३. पज्जादि०-पा०।