________________
श्रुतिपरीक्षा
५९३ सर्वस्य ज्ञानस्य सर्वविषयत्वप्रसङ्गो बाधकं प्रमाणम्। यदुक्तम्- "ईषत्सम्मीलिते" (तत्त्व० २२१७) इत्यादि, तदप्यनेनैव प्रत्युक्तम्; तस्यापि निर्विषयत्वात्॥ २५९०-२५९१ ॥ यथोक्तम्- “अनेकदेशवृत्तौ च" (तत्त्व० २२२४) इत्यादि, तत्राह
प्रतिबिम्बोदयस्त्वत्र प्रागेव विनिवारितः। ___ सहैकत्र द्वयायोगान् मूर्तानां प्रतिघाततः॥२५९ ॥ प्रतिबिम्बस्य हि वस्तुत्वं पूर्वं निषिद्धम् "मूर्तस्याभिन्नदेशत्वानुपपत्तेः" इत्यादिना ॥ २५९२॥
भवतु नाम प्रतिबिम्बं वस्तुसत्, तथापि तस्य समानबुद्धिगम्यत्वमसिद्धमिति दर्शयन्नाह___ अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बके।
स्थूलसूक्ष्मादिवद् भेदादेकत्वं नैव विद्यते॥२५९३॥ आदिशब्देन दीर्घत्वादिभेदपरिग्रहः।
. अथापि स्यात्-सत्यपि स्थूलादिभेदे केनचिन्नीलादिसाधर्मेण समानबुद्धिगम्यत्वमस्त्येवेति? एवमपि न पारमार्थिकमैक्यं सिध्यति । कल्पितं तु स्यात्, तत्र च सिद्धसाध्यता। अथापि पारमार्थिकमैक्यं स्यात्, देशादिभेदेन वेद्यमानेऽपि? तदा विप्रचाण्डालयोरपि मनुष्यत्वसाम्यादेकत्वमस्तु तथा स्त्रीत्वसामांन्येन मातुस्ते स्वभार्यायाः स्वमुखापानयोश्च पार्थिवत्वादेकत्वमापद्यते ! सर्वस्य विश्वस्य वस्तुत्वादेकत्वे सहोत्पत्तिविनाशादिप्रसङ्गश्चानिवार्य एव ॥ २५९३॥
यदपीदमुक्तं भाष्ये- “अथापिं स्यादेकस्य सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमित्यादित्यं पश्यतु देवानाम्प्रियो य एकः सन्ननेकदेशावस्थ इवं लक्ष्यते....' [G.698] दूरत्वादस्य देशो नावधार्यते, अतो व्यामोहः, एवं शब्देऽपि व्यामोहादनवधारणं देशस्य" (मी०, द०, शा०, भा० १.१.१५) इति । अत्राह
- पुंसामध्यवसायश्च योऽयमेवं प्रवर्त्तते। 'ममोपरि स्थितो भानुरिति भ्रान्तः स निश्चितः ।। २५९४॥ 'सर्वे प्राणभृतो यस्मादेकमेव दिवाकरम्।
पश्यन्ति यौगपद्येन न द्वितीयं कदाचन ॥२५९५॥ द्वितीयस्य श्वेर्मण्डलस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावनिश्चयादेकत्वसिद्धेः 'ममोपरि स्थितो भानुः' इत्येष भ्रान्तः प्रत्ययोऽवधार्यते । न त्वेवं शब्दस्यैकत्वं सिद्धम्, येन देशादिभेदेन वेद्यमानत्वं भ्रान्तं स्यात् । सिद्धे ह्येकत्वे तथा वेद्यमानत्वं भ्रान्तं सिध्येत्, तदेव तु न सिद्धमिति यत्किञ्चिदेतत्॥ २५९४-९५॥ .
रावं न मण्डलं यस्माद् द्वितीयादीह विद्यते।
दृश्यादृष्टेरतश्चार्क एक एव विनिश्चितः ॥ २५९६ ॥ रावमिति। रवेरिदमित्यणन्तमेतत् ॥ २५९६ ॥
ननु च प्रत्यभिज्ञाप्रत्ययेन शब्दस्याप्येकत्वं सिद्धमेव? इत्याह१. अवशिष्ट : पाठो शावर भाष्ये द्रष्टव्यः।। २. रविमण्डल०-पा०, गा०। ३-३. विद्यमानत्वं-पा०, गा० ।