________________
५९२
तत्त्वसंग्रहे इति आत्मा। एतदुक्तं भवति- यदि नामात्मा पारम्पर्पितमुपरिस्थितमादित्यमवाग्वृत्त्याऽवबुध्यते, किमित्यवागेव मन्यते, नोर्ध्वम्। एवं हि स एवावबुद्धो भवति, यदि यथास्थितो गृह्येत; अन्यथाऽतिप्रसङ्गः स्यात् ॥ २५८३-२५८४ ॥
नैवं प्राङ्नतया' वृत्त्या प्रत्यग्वृत्ति समर्पितम्।
बुध्यमानो मुखं भ्रान्त्या प्रत्यभित्यवगच्छति॥२५८५॥ यदुक्तम्-"एवं प्राङ्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम्" (तत्त्व० २२२३) इत्यादि, तत्राह- नैव प्राङ्नतयेत्यादि ॥ २५८५ ॥ .. अत्र कारणमाह
प्रतिबिम्बकविज्ञानं स्वास्याद्यालम्बनं न तत्। ...
तद्विलक्षणनिर्भासाद् रसशब्दादिवित्तिवत्॥ २५८६॥ तद्विलक्षणनिर्भासादिति। भावप्रधानोरे निर्देशः । तद्विलक्षणनिर्भासत्वादित्यर्थः । बहुव्रीहिश्चायम्। प्रयोगः-यद्यद् विलक्षणनिर्भासं ज्ञानम्; न तत्तदालम्बनम्, यथा रसादिविज्ञानं न शब्दालम्बनम्, शब्दविज्ञानं वा रसालम्बनम् । मुखादिविलक्षणनिर्भासाश्च प्रतिबिम्बधिय इति व्यापकविरुद्धोपलब्धिः ॥ २५८६ ॥ असिद्धतामस्य परिहरन्नाह- .
अल्पीयस्यास्यमल्पीयो दर्पणे प्रतिभाति हि। विपर्यस्तश्च वृक्षादिर्जलमग्नः, · प्रतीयते ।। २४८७॥ दर्पणाभिमुखं बिम्बं नैवं तु प्रतिबिम्बकम्। जलाधन्तर्गतं चेदं बिम्बं त्वारादवस्थितम्॥ २५८८॥ आश्रयानुविधानेन स्थूलसूक्ष्मादिभेदि च।
प्रतिबिम्बं न बिम्बं तु नातो हेतोरसिद्धता ॥ २५८९॥ अल्पीयसि दर्पणे महदप्यास्यम्= मुखम्, अल्पीयः=अल्पतरं प्रतिभाति । अधोगतशाखादिश्च जलमग्नो वृक्षादिः प्रतीयते, तथा प्रत्यङ्मुखं मुखमुपलभ्यते जलादिषु दूरप्रविष्टं च, न च तथा मुखादिबिम्बकमवस्थितम् । तथा [G.697] खड्गाद्याश्रयभेदाद् दीर्घादिभेदाकारेण प्रतिबिम्बकमाभाति, न च तथा दीर्घादिभेदवद् बिम्बकमिति तद्विलक्षणनिर्भासित्वं ज्ञानस्य नासिद्धम्॥ २५८७-२५८९ ॥ अनैकान्तिकतां परिहरन्नाह
विलक्षणावभासेनात्यर्थसंवेदने सति। रूपशब्दादिचित्तं स्यात् सर्वं सर्वार्थगोचरम्॥ २५९०॥ ईषत्सम्मीलितेऽङ्गुल्या यच्च चक्षुषि दृश्यते।
पृथगेकोऽपि साऽप्येवं भ्रान्तिर्निर्विषया मता॥ २५९१॥ १. तद्गतया- जै०, पा०। २. तद्गतयेत्यादि-जै०, पा०। ३. भावलक्षणो— पा०, गा० । ५.०मुखादिश्च-पा०।
६. दूर प्रतिष्ठं-पा०, गा०।
४. सिद्धता०-पा०/ ७. मुखादिविधक०---पा०/ .