________________
५९१
श्रुतिपरीक्षा तस्यान्यथेति' किं त्वेवं सर्वं स्यात् सर्ववेदकम्॥२५८०॥ तस्यैव प्रतिपत्तिः । स्याद् यदीक्ष्येत तथास्थितम्।
अन्याकारोपलब्धौ तु तस्य दृष्टिः कथं भवेत् !॥ २५८१॥ [G.695] भवतो हि मीमांसकस्य निराकारं विज्ञानम्, आकारवान् बाह्योऽर्थः, ततश्च यत्तजलान्तर्गतं रूपं दृश्यते न तावदसौ ज्ञानाकारः; बाह्यस्यैवाकारवत्त्वाभ्युपगमात् । नापि तत् प्रतिबिम्बमर्थान्तरभूतमभ्युपगतम्; सूर्यस्याग्रहणप्रसङ्गात्। नापि सूर्यो जलान्तर्गतो येन तथा भासेत; तस्याकाशदेशवर्तित्वात्। भ्रान्त्या तथा भासत इति चेत् ? एवं तर्हि न सूर्यालम्बनं ज्ञानम्; तस्य सूर्यस्य जलान्तर्गतरूपाभावात्। ततश्च यद्रूपोऽर्थो यज्ज्ञानेनावभासते तद्रूपार्थवियुक्तत्वात् तद्विज्ञानमनालम्बनमिति सिद्धम् । प्रयोगः-यो यद्विज्ञानप्रतिभासिस्वरूपी न भवति न स तद्विज्ञानविषयः, यथा रूपं श्रोत्रज्ञानस्य । न भवति प्रतिबिम्बविज्ञानप्रतिभासिस्वभावश्च सूर्य इति व्यापकानुपलब्धिः । नासिद्धो हेतुः; सूर्यस्य जलान्तर्गतरूपाभावात्। नाप्यनैकान्तिकः; अतिप्रसङ्गात्। एवं हि यत् किञ्चिद् यस्य कस्यचिदालम्बनं प्राप्नोति। सपक्षे तद्भावात् न विरुद्धः ।। २५७७-२५८१॥
अथापि स्यात्- स एव सूर्यो देशादिभेदेन केवलमन्यथा प्रतीयत इत्यतो हेतुरसिद्ध एवेति? तदेतद्भवतः प्रौढतार्किकादृते कोऽन्यो वक्तुमर्हति–तदेव चान्यथेति । तथा हितदेवेत्यनेन तत्स्वरूपं विधीयते, अन्यथेत्यनेन तनिषेधः, तत् कथमेकत्रैकदा परस्परविरुद्धौ विधिप्रतिषेधौ युक्तौ ! यदि पुजरन्यथा प्रतीयमानोऽपि स एव स्यात्, तदा सर्वविश्वमेकं भवेत्। ततश्च सहोत्पत्तिनाशौ स्याताम्, सर्वं च विज्ञानमेकविषयं स्यात् । तस्माद् यथा देशकालादिभेदवानसावर्थस्तथैव यदि प्रतीयेत, एवं स एंव प्रतीतः स्यादिति कुतोऽसिद्धता ! द्वितीयेऽपि साकारपक्षे निरालम्बनतां प्रतिबिम्बधियां प्रतिपादयति
साकारेऽपि हि विज्ञाने न ज्ञातार्थाविलक्षणे। - आकारे सति विज्ञानं ग्राहकं तस्य युज्यते॥२५८२॥
साकारविज्ञानपक्षे हि साकारसंवेदनेऽपि बाह्यार्थाविलक्षणाकारानुभवाद् बाह्यो विदित उच्यते; न तु विलक्षणानुभवात्, अन्यथाऽतिप्रसङ्गः स्यात् । न चात्र प्रतिबिम्बधियां सूर्याकाराविलक्षणाकारानुभवोऽस्ति, अन्यथा ह्यभ्रान्तसूर्यज्ञानाविशेषः प्रतिबिम्बधियां स्यात् ॥ २५७७२५८२॥ . . . . . . . यदुक्तम्- "अप्सूर्यदर्शिनाम्" (तत्त्व २२२०) इत्यादि, तत्राह
पारम्पयर्पितं सन्तमवाग्वृत्त्यावबुध्यताम्। किमूर्ध्ववृत्तिमेकत्वेऽप्यवागेवानुमन्यते ॥२५८३॥ यथैवावस्थितो हर्कस्तथैवेक्ष्येत यद्यसौ।
अवबुद्धः प्रकल्प्येत नान्यथेत्युपपादितम्॥२५८४॥ [G.696) अवबुध्यतामिति आत्मा। ऊर्ध्ववृत्तिमिति आदित्यम्, उपरिस्थितमित्यर्थः५ । मन्यत १. तच्चान्यथेति- पा०, गा०। . २. देशभेदेन- पा०, गा० ।
३. विरुद्भयते-जै०। ४. किन्तु_०- पा०, गा०। ५. परिस्थितमिल-गा०।।