________________
५९०
तत्त्वसंग्रहे अथापि स्यात्-प्रतिनियतानेकपुंसां श्रुतियोग्यौ संस्कृतौ श्रोत्रवर्णो, तेन सर्वैर्न श्रूयत इति? एवं तर्हि ये अन्येषां वर्णानां प्रतिपत्तारः, तेषां शब्दश्रवणं न प्राप्नोति । एतदेव दर्शयति
नियतश्रुतियोग्यौ चेच्छोत्रवर्णी च संस्कृतौ।
नान्यवर्णप्रपतृणां पुनः स्याच्छवणं तदा॥२५७३॥ नियतानां पुंसां श्रुतियोग्याविति समासः। अन्ये च ते वर्णप्रपत्तारः, अन्येषां वा वर्णानां प्रपत्तार इति विग्रहः ॥ २५७३ ।।
__ अथापि स्यात्-ये तेऽन्यवर्णप्रतिपत्तारः, तज्ज्ञानोत्पत्तियोग्यं पुनरपि संस्कारान्तरं शब्दश्रोत्रयोर्भवेत् ? इत्येतदाशङ्कय परिहरति
तद्वर्णनरविज्ञानयोग्यौ चेत् संस्कृतौ पुनः।
तयोरेवानुवृत्तौ स्यात् तयोरपि ननु श्रुतिः ॥ २५७४॥ .. [G.694] ते च ते वर्णनराश्चेति समासः । के पुनस्ते? वर्णा येऽन्यैः प्रतिपत्तृभिर्गृह्यन्ते, नराश्च तेषामेव ये प्रपत्तारः । तेषां विज्ञानम्, तत्र योग्याविति समासः। तयोरेवेति पूर्वसंस्कृतयोः श्रोत्रशब्दयोः। तयोरपति पूर्वकयोवर्णनरयोः । एतदुक्तं भवति-पश्चाद् यदान्यैः श्रूयते ककारादिवर्णः, तदापि यैः पूर्वश्रुतस्तद्वतू तैरपि श्रूयेत; प्राक्तनस्वभावानुवृत्तेरिति । २५७४ ।। अथ नानुवृत्तिः, तदाऽनित्यत्वप्रसङ्ग इत्यादर्शयन्नाह
व्यावृत्तावन्य एवामी श्रोत्रवर्णाः कथं न ते।
प्राप्नुवन्ति ततस्तेषु नित्यताशाऽनिबन्धना ॥ २५७५॥ सुबोधम् ।। २५७५ ॥ यदुक्तम्- "जलादिषु यथैकोऽपि" (तत्त्व० २२०९) इत्यादि, तत्राह
जलादिषु न चैकोऽयं नानात्मा सवितेक्ष्यते।
प्रतिबिम्बधियः सर्वा यन्निरालम्बनाः स्थिताः॥२५७६ ॥ सर्वमेव हि भ्रान्तं ज्ञानं निर्विषयमिति पूर्वमविशेषेप्प प्रतिपादितम् । तथापि पुनः प्रतिबिम्बधियां विशेषणात्' द्वयोरपि साकारनिराकारपक्षयोः प्रतिपादयति। तत्र प्रथम पक्षमधिकृत्याह
निराकारा धियः सर्वास्त्वत्पक्षेऽपि व्यवस्थिताः। आकारवान् पुनर्बाह्यः पदार्थोऽभ्युपगम्यते॥२५७७॥ जलाधन्तर्गतं चेदं प्रतिबिम्बं समीक्ष्यते। नभस्तलादिवर्ती च सूर्यादिर्न तथा स्थितः ॥२५७८ ॥ तत् कस्माद् भात्यसावेवं भ्रान्त्या चेदत एव तत्। न तु स्पष्टमनालम्बं तद्रूपार्थवियोगतः ॥२५७९ ॥
तस्यैव प्रतिपत्तिश्चेदन्यथेदं सुभाषितम्। १. नियतानामेव पुंसां-पा०, गा० । २. विशेषणा-पा०, विशेषेण-गा।