________________
श्रुतिपरीक्षा
५८९ संस्कारपक्षेऽपि दोष एवेत्यत: पक्षान्तरमुक्तम्। न दूरस्थैस्तु किं पुनरिति। श्रूयत इति सम्बन्धः। अपि तु श्रुत' एवेति' साक्षाद्दर्शयति ॥ २५६६ ॥ एतदेव व्यक्तीकरोति
सामीप्येऽपि हि संस्कारः कारणं परिकल्प्यते।
संस्कारः स समानश्च तेषु दूरस्थितेष्वपि॥२५६७॥ "शब्दोत्पत्तेर्निषिद्धत्वात्" (तत्त्व २२०६) इत्यादावाह
विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो यदि गम्यते। शब्दोत्पत्तिः प्रतिक्षेप्तुं न शक्या केनचित् तदा ॥२५६८॥ विशिष्टसंस्कृतिः शब्दात् सा हि न व्यतिरेकिणी।
शब्दस्याज्ञेयताप्राप्तेस्ततः शब्दोऽपि जायते॥२५६९॥ यदि संस्कृतिरुत्पद्यते? तदा शब्दस्याप्युत्पत्तिप्रसङ्गः; तस्य संस्कृतेरव्यतिरेकात्। अथ व्यतिरेकः? तदा संस्कारादेव ज्ञानोत्पत्ते: शब्दस्याकारकत्वादज्ञेयत्वसङ्गः। ततश्च' शब्दोऽपि जायत इत्यङ्गीकर्तव्यम् ॥२५६८-२५६९॥
अथापि स्याद्-यथा प्रतिनियतज्ञानोत्पादनसमर्थः शब्द उत्पद्यते भवताम्, तथास्माकमपि [G.693] संस्कारप्रतिनियमो भविष्यति, तेन-दूरस्थैर्न गम्यत इति? अत्राह
- संस्कृतश्चैकदा शब्दस्तमात्मानं न जातुचित्।
जहात्यनित्यतासङ्गादुपलभ्येत तत् सदा ॥ २५७०॥ यदि नाम प्रतिनियतपुरुषसन्तामवर्त्तिज्ञानोत्पादसमर्थः संस्क्रियते, तथापि दोष एव। तथा हि-यदि ज्ञानोत्पादयोग्यं संस्कृतं स्वभावं न जहाति, तदा सर्वदैव तज्ज्ञानोत्पत्तिप्रसङ्गः। अथ जहाति? तदाऽनित्यत्वप्रसङ्गः। तत् तस्मादुत्पद्यत एवेत्यङ्गीकर्त्तव्यम् ॥ २५७० ॥ यदुक्तम्-"संस्कारद्वयपक्षे तु" (तत्त्व० २२०८) इत्यादि; तत्राह
- संस्कारद्वयपक्षेऽपि सत्यं दोषद्वये वचः। __ • यनान्यतरवैकल्यं प्राक्तनस्यानुवृत्तितः॥२५७१॥
येषामुत्पत्तिपक्षः, तेषां मतेनान्यतरवैकल्यं युज्यते, न तु संस्कारवादिनां पक्षे; तेषां सदैव प्राक्तनस्य. संस्कृतस्य स्वभावस्यानुवृत्तेः ॥ २५७१ ॥ तथा हीत्यादिना तामेवानुवृत्तिं दर्शयति
तथा हि संस्कृताः श्रोत्रवर्णा ये व्यञ्जकैः पुरा।
न नष्टास्ते च्युतिप्राप्तेः सर्वैः सर्वश्रुतिस्ततः॥२५७२॥ च्युतिप्राप्तेरिति। अनित्यत्वप्रसङ्गादित्यर्थः । अन्यथा प्रतिज्ञाविशिष्टः स्यात्। सर्वश्रुतिरिति । सर्वस्मिन् काले श्रुतिः सर्वश्रुतिः । न तु सर्वस्य श्रुतिरिति विग्रहः; "कर्मणि च' (पा० सू० २.२.१४) इति समासप्रतिषेधात्॥ २५७२ ॥ १-१. श्रूयेतैव-गा०। . २. तत:-पा०, गा० पुस्तकयो स्ति।
३. ज्ञायते-जै०। ४-४. संस्कृतस्वभावं-पा०, गा०। ५. पा०, गा० पुस्तकयो स्ति।
६. द्वसंस्कार०-पा०, गा० । ७. ....च:-पा०।
८-८. यद्वयञ्जकै:-पा०, गा०। ९. विशिष्टे:-पा०; विसृष्टि:-गा०/