________________
५८८
तत्त्वसंग्रहे दिग्भागेऽपि समस्तोऽसौ विज्ञेयो मतिशालिभिः ॥२५६०॥ यदुक्तम्- "विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः" (तत्त्व० २२०३) इत्यादि,
तत्राह
विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः।
नास्तत्वाच्छक्तिनियते तो विषयसंस्कृतिः ॥ २५६१॥ नेति 'विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः' इत्येतन्न। कुतः? अस्तत्वात्= प्रतिक्षिप्तत्वात् । संस्कारस्येति शेषः । तथा हि-व्यतिरिक्तोऽव्यतिरिक्तश्च संस्कारः पूर्वं निरस्तः । इतोऽपि न विषयस्य संस्कारः, कुतः? 'शक्तिनियतेः; अतो वक्ष्यमाणाया: । शक्तिनियतेश्चेति चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेनायमर्थो भवति-शक्तिनियमाच्चातो वक्ष्यमाणान्न विषयसंस्कारो युक्तः ॥ २५६०-२५६१॥ । तमेव शक्तिनियमं दर्शयति- .
ज्ञानोत्पत्तावयोग्यत्वे गम्येत न कदाचन। . सर्वैः सर्वत्र शब्दोऽयं तज्ज्ञानेऽनुपयोगतः ॥ २५६२॥ ज्ञानोत्पत्तौ तु सामर्थ्य सर्वैः सर्वत्र सर्वदा।
अवगम्येत शब्दोऽयं ज्ञानहेतुतया स्थितेः ।। २५६३॥. कदाचिदसौ शब्दः प्रकृत्या ज्ञानोत्पत्तावयोग्यो भवेत्, न वा-इति पक्षद्वयम् । प्रथमे पक्षे न कदाचित् केनचिदवगम्येत । द्वितीयेऽपि सर्वैः सर्वदैवावगम्येत; एकरूपत्वात्। अतो न संस्कारस्य सामर्थ्यम् ॥ २५६२-२५६३॥ .
स्यादेतत्- समर्थोऽपि विरोधिप्रत्ययबलात् कदाचिद् विज्ञानं नोत्पादयेत्, तथा असमर्थोऽपि सहकारिप्रत्ययाहितसामर्थ्य: सन्नुत्पादयिष्यतीति? तत्राह
तं हि शक्तमशक्तं वा प्रकृत्यैवात्मनि स्थितम्।
विरोधी सहकारी वा कोऽर्थं क्षपयितुं क्षमः॥२५६४॥ [G.692) न हि स्वभावमखण्डयन्ननुत्पादयन् वा विरोधी सहकारी वा युक्तः; अतिप्रसङ्गात्। खण्डनोत्पादनाभ्युपगमे नित्यत्वहानिप्रसङ्गः ॥ २५६४॥ . यदुक्तम्- "यथैवोत्पद्यमानः' (तत्त्व २२०४) इत्यादि, तत्राह
ज्ञानोत्पादनयोग्यश्च कांश्चित् प्रति भवत्ययम्।
तस्मादुत्पद्यमानोऽयं न सर्वैरवगम्यते ॥ २५६५॥ उत्पत्तिपक्षे नायं दोषः; यतः प्रतिनियतविज्ञानोत्पत्तिसमर्थ एव स्वहेतोरुपजायते, तेन न सर्वैः सर्वदा गम्यते । यस्य तु संस्क्रियते शब्दः, तस्यैवायं दोषो यदि नाम संस्कार: सम्भवतीति दर्शयन्नाह
__अथ वा यत्समीपस्थैर्नादैः स्यादस्य संस्कृतिः। .
तैरेव श्रूयते शब्दो न दूरस्थैस्तु किं पुनः ॥ २५६६॥ न केवलं प्रकृत्या ज्ञानोत्पादनसामर्थ्याभ्युपगमे दूरस्थस्यापि ग्रहणं प्रापोतीति दोषः,
१-१ नियतेवक्ष्यमाणाया:- पा०, गा०।