________________
५८७
श्रुतिपरीक्षा विभिन्नस्य हि सम्बन्ध: कार्यकारणता भवेत्।
तस्यां च सर्वदैवायं भवेद्धेतोः सदा स्थितेः ॥ २५५५॥ [G.690) यदेति यतः कारणादित्यर्थः । एवम्= अनन्तरोक्तेन प्रकारेण । नित्यस्यातिशयाभावान्नैव संस्कृतियुज्यते। "तत्र सामर्थ्यनियमो वाय्वादेरुपपद्यते" (तत्त्व० २५५७) इति वक्ष्यमाणेन सम्बन्धः । यथा चासौ संस्कृति!पपद्यते, तथा तावद्विस्तरेण दर्शयन्नाह-भेदाभेदेत्यादि। संस्कृति ती व्यतिरिक्ता वा भवेद्, अव्यतिरिक्ता वा-इति पक्षद्वयम्; वस्तुनः प्रकारान्तरास भवात्। प्रथमे पक्षे श्री शब्दयोः संस्कारासिद्धिप्रसङ्गः, अर्थान्तरकरणात्, न हि घटकरणे पट: संस्कृतो नाम ! पि तस्य संस्कारस्य ताभ्यां सह सम्बन्धः सिध्यति, येन तत्सम्बन्धिसंस्कारकरणद्वारेण तौ संस्कतौ स्याताम्। तथा हि-भेदाभ्युपगमान्न तादात्म्यलक्षणः सम्बन्धः । भिन्नस्य च सम्बन्धो भवन् कार्यकारणतालक्षण एव भवेदन्यत्रोपकाराभावात्। तस्यां च कार्यकारणतायां सत्यां सर्वदैवायं संस्कारो भवेत्; हेतोः श्रोत्रशब्दात्मकस्य सर्वदावस्थितत्वात् ॥ २५५३-२५५५॥ . द्वितीयेऽपि पक्षे दोषमाह- .
अनर्थान्तरपक्षेऽपि तद्वन्नित्यो भवेदसौ।
तदशक्यक्रियस्तस्मानित्यं ज्ञानं प्रसज्यते॥२५५६॥ तद्वदिति श्रोत्रशब्दस्वरूपवत्। असविति संस्कारः। ततश्च नित्यत्वादसौ संस्कारो न केनचित् क्रियते । तस्माच्च संस्कारादिज्ञानोत्पत्ताविष्यमाणायां नित्यं ज्ञानं प्रसज्येतेति नित्यत्वे दोषः ॥
.. तन्न सामर्थ्यनियमो वाय्वादेरुपपद्यते।
कर्तव्यविषयायोगे सामर्थ्यस्याप्ययोगतः ॥२५५७॥ तन्नेत्यादिनोपसंहरति ।। २५५७॥ अत इत्यादिना शब्दानित्यत्वसाधने प्रमाणयति
अतोऽभिव्यक्त्ययोगेन शब्दज्ञानमिदम्फलम्। ग्राह्योत्पादविनाभाविघटादिव्यक्तिबुद्धिवत् ॥२५५८॥ . तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः।
सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः॥ २५५९॥ [G.691] प्रयोगः- यत् कादाचित्कं तदुत्पत्तिमत्कारणजन्यम्, यथा घटव्यक्तिविषयं ज्ञानम्, कादाचित्कं च शब्दज्ञानमिति स्वभावहेतुः । नित्यं तज्ज्ञानासंवित्ते सिद्धो हेतुः । अभिव्यतेरपास्तत्वान्नाप्यनैकान्तिकः । सपक्षे भावान्न विरुद्धः । इदम्फलमिति । इदं ग्राह्योत्पादाविनाभाविलक्षणं फलमस्येति विग्रहः । शेषं सुबोधम्॥ २५५८-२५५९॥
दिक्श्रोत्रपक्षे पूर्वमेव दूषणस्योक्तत्वान्न पुनरुच्यते। अत एव पूर्वोक्तं तदेव दूषणं स्मारयन्नाह
___ यावाँश्च कश्चन न्यायो नभोभागत्वदूषणे। १. तन्त्र शक्यक्रिय०- पा०, गा०।