________________
५८६
तत्त्वसंगहे
ननु चाकार्यस्यापि वशीक्रिया दृश्यते, य. गगभोग्यस्य श्रावस्- नान्मन्त्रौषधादिशक्त्या भोग्यत्वं भवति, ततश्च हेतोरनैकान्तिकतेति? तत्र परिहारमाह
मन्त्रौषधादिशक्त्या च पुनर्भोग्यं कथं भवेत् !
नित्यत्वान्न हि तत् तेभ्यो विशेष प्रतिपद्यते॥ २५४७॥ [G.689] आदिब्देनोल्लेखनादिपरिग्रहः। कथं भवेदिति । यदि तत्रापि न कार्यता भवेदित्यध्याहारः। ननु चाकार्यस्यापि सतो विशेषोत्पत्तिमात्रेण वशीक्रिया भविष्यति? इत्याहनित्यत्वादित्यादि ॥ २५४७॥
एवं तमुधिष्ठानस्यानित्यत्वात् तत्संस्कारद्वारेण नित्यस्यापि श्रोत्रस्य वशीक्रिया भविष्यति? इत्याह
अधिष्ठाने त्वनित्येऽपि क्षणिकानित्यता न चेत्।
तदात्मातिशयायोगाद् बाधिर्यादिर्न युज्यते॥ २५४८॥ ... अनित्येऽपति। कालान्तरविनाशात् तस्यापि ह्यविनाशमेकरूपत्वानित्यस्येव नातिशयोत्पत्तिः सम्भवतीति कुतः संस्कारः !॥ २५४८ ॥
अभ्युपगम्यातिशयं दोषमाह
___ अस्तु वातिशयस्तस्मिन् व्योग्नि त्वेष न विद्यते।
एष इति अतिशयः । यद्यपि न विद्यते, तथाप्यधिष्ठानसम्बन्धात् तस्यापि भविष्यति? इत्याह
न चाधिष्ठानसम्बन्धान्नित्यत्वादनपेक्षणात्॥ २५४९ ॥ अतस्तदद्वारकोऽप्यत्र बाधिर्यादिर्न युज्यते।
नभसो भागवत्त्वेऽपि नित्यतायामिदं समम्॥२५५०॥ यदुक्तम्- "न चानवयवं व्योम" (तत्त्व० २१८२) इत्यादि, तत्रापि सावयवस्य नभसो यदि नित्यत्वमभ्युपगम्यते, तदा यदनवयवनित्यनभ:पक्षे दूषणं तत् सर्वं समानमित्यतिदिशति नभस इत्यादि ॥ २५४९-२५५०॥ यदुक्तम्- "यथा तत्र भवनैव" (तत्त्व० २१९१) इत्यादि, तत्राह
तत्रैव भवतोऽप्येवं स्वामित्वानपकर्षणम्। न युक्तं यदि तस्यापि क्षणिकत्वं समस्ति न॥२५५१॥ को हि तस्याः समुत्पन्नः पश्चादतिशयो यतः।
स्वामित्वादपकृष्टोऽसौ न भोगं पुनराप्नुयात्॥२५५२॥ सुबोधम् ॥ २५५१-२५५२॥ यदुक्तम्- "व्यञ्जकानां हि वायूनाम्" (तत्त्व० २१९३) इत्यादि, तत्राह
यदा च संस्कृति वं श्रोत्रे शब्दे च युज्यते। भेदाभेदविकल्पेन संस्कारानुपपत्तितः ॥२५५३॥ व्यतिरेके हि संस्कारे श्रोत्रशब्दौ न संस्कृतौ। स्यातां ताभ्यां च सम्बन्धः संस्कारस्य न कश्चन॥२५५४॥