________________
५८६
श्रुतिपरीक्षा ततोऽधिष्ठानभेदेन संस्कारनियमोऽस्थितः ॥२५३९॥ तेनैकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम्।
बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥२५४०॥ अन्यच्चेति। असंस्कृताश्रयम् । न ह्यनवयवस्यायं विभागो युक्तः; सावयवत्वप्रसङ्गात् । [G.688] काल्पनिके तु विभागेऽर्थक्रियावृत्त्या वृत्तिविरोध:', न ह्यारोपितार्थानुविधायिन्योऽर्थक्रिया भवन्ति; तासां वस्तुप्रतिबद्धत्वात्। ततश्चैकस्मिन्नधिष्ठाने यदि संस्कृतमिन्द्रियं तच्च बोधकस्वभावम्, तदाधिष्ठानान्तरे तदेव तत्परमार्थत इति सर्वत्रैव तत्संस्कृतं बोधकं च प्राप्नोति ।। २५३८-२५४० ॥
तेन यदुक्तम्-"पुंसां देहप्रदेशेषु'" (तत्त्व० २१८८) इत्यादि, तत् सर्वं प्रत्युक्तम्, एकस्य पारमार्थिकविभागायोगादिति दर्शयन्नाह
पुंसा देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यताम्। किन्तु प्रधानवैदेश्यमेकत्वान्नभसो न ते ॥ २५४१॥ निष्प्रदेशोऽपि चात्मा न: कात्स्न्र्येन चं विदन्नपि।
शरीर एव गृह्णातीत्येवमुक्तेऽपि दुष्यति ॥ २५४२॥ प्रधानवैदेश्यमिति। प्रधानस्य शरीरस्य वैदेश्यम्-भिन्नाकाशदेशवर्त्तित्वम्। एवमुक्तेऽपि दुष्यतीति । एकस्य विभागायोगात् ॥ २५४१-२५४२॥
वाधिर्याद्यव्यवस्थानमेतेनैव च हेतुना।
तदेवाभोग्यमन्यस्य नाविशेषाद्धि युज्यते ॥२५४३॥ अव्यवस्थानमिति । व्यवस्थानाभावः ॥ २५४३॥ अविशेषमेव दर्शयति
. अव्यक्तपूर्वरूपं हि विशेषानुदये सति।
. कथं नाम भवेच्छोत्रमभोग्यमपरस्य ते॥२५४४॥ अथापि स्याद्-धर्माभ्यां वशीकृतत्वाद् विशेषोऽस्त्येव? इत्याह
नित्यत्वादनपेक्षत्वाद् धर्माधर्मावशीकृतम्।
सदैव च नभःश्रोत्रं सर्वाभोग्यं प्रसज्यते।। २५४५॥ नित्यत्वमनपेक्षत्वे हेतुः, तथाऽवशीकरणस्य ॥ २५४५ ॥ अथानपेक्षस्यापि वशीकरणं कस्मान्न भवति? इत्याह
धर्माधर्मोपकार्यं हि नभो नैव कदाचन।
नित्यत्वात् कार्यताभावे चास्य केयं वशीक्रिया॥२५४६॥ अनपेक्षत्वेन ह्यकार्यत्वमुच्यते। यच्चाकार्यं न तत् केनचिद् वशीक्रियते, यथा शशविषाणम्, अप्रतिसङ्ख्यानिरोधादिर्वा । अकार्यं च श्रोत्रमिति व्यापकविरुद्धोपलब्धिः। नित्यत्वादित्यनेन हेतोरसिद्धतां परिहरति। कार्यताया अभावे केयं वशीक्रियतेत्यनैकान्तिकताम् ॥ २५४६॥ १. वृत्त्यवृत्ति०-गा।
२. परिहरतीति सम्बन्धः।