________________
५८४
तत्त्वसंग्रहे प्रति भाष्यकृतोक्तम्-"वायवीयश्चेच्छब्दो' भवेद्, वायोः सन्निवेशविशेष: स्यात् । न चर वायवीयानवयवान् शब्दे सतः प्रत्यभिजानीमः, यथा पटस्य तन्तुमयान्। न चैवं भवति । स्याच्चेदेवं स्पर्शनेनोपलभेमहि । न च वायवीयानवयवान् शब्दगतान् स्पृशामः'' (मी० द०, शा० भा० १.१.२२) इति ॥ २५३३॥ अभ्युपगम्याप्यतीन्द्रियत्वम्, दोषान्तरमाह
अस्तु वाऽतीन्द्रियो वायुस्तत्तद्योगिगतस्य तु।
उष्णशीतेतरस्य स्यात् स्प्रष्टव्यस्य विदन्यवत् ॥ २५३४॥ ... तेन तेन वायुना योगस्तत्तद्योगः, स यस्यास्ति जलतेजोजगतीसंज्ञकस्य भूतत्रयस्य तत्तथोक्तम् । तद्गतम्=तत्प्राप्तं तदाश्रितमिति यावत्। "द्वितीयाश्रित" (पा० सू० २.१.२४) इत्यादिना द्वितीयासमासः। एतच्च स्प्रष्टव्यस्येत्यनेन समानाधिकरणम्। तस्य स्प्रष्टव्यस्य शीतोष्णेतरस्वभावस्य वित्-वेदना प्राप्नोति। अन्यवदिति। शब्दव्यञ्जकाभिमतकोष्ठवायुगतादन्यस्येव। षष्ठ्यन्ताद् वतिः । यथा शिशिरसमये हिमनिचयव्यासङ्गवाहिनः पवनस्य, यथा वा तरुणतरणिकरनिकरप्रसङ्गावरुद्धाशेषदिग्विभागे वहतो निदाघसमये समीकरणस्य, तथा शीतेतरविरहितकालवर्त्तिनो मातरिश्वनः स्प्रष्टव्यस्य शीतादेः संविद् भवति; तथेहापि स्यात् ।। २५३४॥ अथापीत्यादिना परस्योत्तरमाशङ्कते- .
अथापि कर्णशष्कुल्या तस्यायोगान्न विन्मतिः। कर्णव्योम न सम्प्राप्त इत्येतन्नु कथं 'गतम् ॥ २५३५॥ तस्माच्छ्रोत्रियदृष्टयं कल्पना निर्निबन्धना।
विदुषां प्रीतये नेति श्रोत्रियेष्वेव राजते ॥२५३६॥ [G.687] तस्येति वायोः । अयोग इति असंसर्गः । कर्णशष्कुल्येति सम्बन्धः । शेष सुबोधम् ॥ २५३५-२५३६॥
यदुक्तम्- "यद्वा वेदानुसारेण" (तत्त्व० २१९७) इत्यादि, तत्र समानत्वाद् दूषणस्येत्यत्रैवातिदेशं कुर्वन्नाह
ये निरंशं नभः प्राहुस्तान् प्रति प्रागुदीरिताः।
दोषा ज्ञेया निरंशैकदिक्श्रोत्रत्वेऽपि ते समाः ॥ २५३७॥ निरंशाकाशात्मकश्रोत्रपक्षे ये प्रागुक्ता दोषाः-संस्कारवैयर्थ्यम्, संस्कारानुपपत्तिश्चेत्यादयः, ते दिक्छोत्रपक्षेऽपि समाना इति न पृथक् दूषणं वाच्यम् ॥ २५३७ ॥ यदुक्तम्- "यद्यपि व्यापि चैकं च" (तत्त्व० २१८४) इत्यादि? तत्राह
एकव्यापिनभःपक्षे विनाशो न प्रकल्प्यते। संस्कृताश्रयमन्यच्चेत्येकमेव हि तन्नभः ॥२५३८॥
एकव्योमात्मकं श्रोत्रं नास्त्यसंस्कृतशष्कुलि। १. वायवीयश्च शब्दो-पा०, गा०। २-२. ०शेषस्तान्यस्य-जै०। ३. करप्रसङ्गा०-पा०, गा० । ४. चेन्मति:-पा०, गा०।
५. मतम् - गा०।
६-६. निरंशं ये-जै०।