________________
श्रुतिपरीक्षा
५८३ व्यस्ता इत्यादि। पूर्वमिति षट्पदार्थपरीक्षायाम्। अव्यतिरिक्तास्तर्हि भविष्यन्ति? इत्याह-वायोरित्यादि। वायवं एव हि संयुक्ता वियुक्ताश्चोत्पद्यमाना अव्यतिरिक्ताः संयोगविभागा उच्यन्ते। न चाक्षणिकाः क्रमेणापि संयुक्तस्वभावा युज्यन्ते; तेषामेकरूपत्वात् ॥ २५२८-२५२९ ॥ यदुक्तम्-"कर्णव्योमनि सम्प्राप्तः" (तत्त्व० २१७८) इत्यादि, तत्राह
कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे करोति चेत्।
तत्कशाघातवत् कस्माच्छब्दवित्तौ न तद्गतिः ॥२५३०॥ अत्र पक्षद्वयम्-कदाचिदसौ वायुरुपलभ्यस्वभावो वा भवेत्, अनुपलभ्यस्वभावो वा। प्रथमे पक्षे शब्दवित्तिकाले कशाघातस्येव वायोरपि गति: उपलब्धिः प्राप्रोति ॥२५३०॥
शब्दावधानमेतस्य प्रतिबधाति वेदनाम्।
इत्ययुक्तं कशाघातवातान्तरविदस्तथा ॥२५३१॥ अथापि स्याद्-युगपद्विज्ञानद्वयानुत्पत्तेः, शब्दावधानम् शब्दोपलम्भः, एतस्य-वायोर्वेदनाम् उपलब्धि प्रतिबनातीति? तदेतदयुक्तम्; शब्दोपलब्धिकाले कशाघातवातान्तरविदो वक्तुम् । यथा हि वातान्तरस्य व्यजनादिकृतस्य कशाघातस्य च शब्दोपलम्भवेलायामनुभवो भवेत्, तथा कर्णदेशप्राप्तस्यापि वायोः स्पर्शवित्तिः स्यात्। युगपद्विज्ञानानुत्पत्तिप्रतिज्ञायाः प्रत्यक्षविरोधमाह ॥ २५३१॥
न चाशूत्पत्तिबलाद्युगपद्ग्रहणभ्रान्तिरतिप्रसङ्गादिति प्रतिपादितम् । भवतु नाम क्रमभागेऽपि लाघवकृतो यौगपद्यविभ्रमः, तथाप्येतदुत्तरमत्र प्रकृतानुपयोगित्वान्न किञ्चिदिति प्रतिपादयति
'लाघवात् क्रमभावेऽपि युगपदभ्रान्तिभिरा।
न किञ्चित् सर्वथाप्यस्मिन् वायोरनुपलम्भनात् ॥२५३२॥ यदि नाम विज्ञानस्योत्पत्तिलाघवाद् यौगपद्यविभ्रमो भवतीति? स्यात्; न तु [G.686] पुनरुपलब्धिलक्षणप्राप्तस्य सर्वथानुपलम्भ एव भवति। तथा हि- अत्र सर्वथैव क्रमेण यौगपद्येन वा वायो: कर्णदेशप्राप्तस्यानुपलम्भ एव । तस्माल्लाधवकृतोऽयं विज्ञाने यौगपद्यविभ्रम इति, अद: एतदुत्तरं न किञ्चित् । तुच्छमित्यर्थः ॥ २५३२ ॥ - अथापीत्यादिना द्वितीयपक्षमाह
अथाप्यतीन्द्रियो वायुः काणादैरिव वर्ण्यते।
युष्माभिरपि तद्भाष्ये स्पृष्ट्याप्तिस्तस्य किंकृता॥२५३३॥ काणादाः =वैशेषिकाः । तेषां शब्दलिङ्गो वायुः । भाष्यकृताऽपि शबरेणोक्तम्"वायवीयाः संयोगविभागा अप्रत्यक्षस्य वायो: कर्णशष्कुलीप्रदेशात् प्रादुर्भवन्तो नोपलभ्यन्ते" (मी० द० शा० भा० १.१.१५) इति । अत्र दूषणमाहस्पृष्ट्याप्तिस्तस्य किंकृतेत।स्पृष्टि: स्पर्शः, तस्याप्ति:=प्राप्तिः, प्रसङ्ग इति यावत्। एतदुक्तं भवति-तस्य वायोः स्पर्शप्रसङ्गो योऽयं भाष्यकारेण कृतः, स कथम्, तथा हि-"वायुरापद्यते शब्दताम्" इत्येवंवादिनः शिक्षाकार। १. पा०. गा० पुस्तकयो स्ति।
२. तद्रव्य-पा०!
३. ०स्तत्र-पा०, गा