________________
५८२
तत्त्वसंग्रहे
ज्ञानम्' इति पक्षः, तेषां सर्वात्मना विषयसारूप्यानभ्युपगमात् केनचिदंशेन सारूप्या भिन्नाभानामपि मतीनामेकविषयत्वमविरुद्धमेवेति न चोद्यम् ॥ २५२३॥ .
शब्दस्य तर्हि प्राप्तिग्रहणे किं बाधकं प्रमाणम्, अप्राप्तिग्रहणे च किं साधकम् ? इति प्रश्ने सत्याह
प्राप्तिग्रहणपक्षे तु कर्णाभ्यन्तरपक्षवत्।
न विच्छिन्न इति ज्ञानं मेघशब्दादिके भवेत् ॥ २५२४॥ [G.684) कर्णाभ्यन्तरपक्षवदिति वैधर्म्यदृष्टान्तः । षष्ठयन्ताद्वतिः । यथा कर्णकण्डूविनोदनकारिणः पतत्रिपक्षस्याविच्छिन्नः' शब्द उपलभ्यते, तथा मेघादिशब्दस्यापि कदम्बगोलकन्यायेन प्रविसर्पतः कर्णदेशमागतस्यैव ग्रहणात् तुल्यं ग्रहणं प्राप्नोति। न च स्वकारणंसंयोगसमवायिदेशवशादयं विच्छेदविभ्रम इति शक्यं वक्तुम्; तेषां श्रोत्रेणाग्रहणात् । न ह्यविषयीभूतपदार्थाकारमारोपयदुत्पद्यते क्वचिद् विज्ञानम्। न हि चक्षुर्विज्ञानं रससारूप्यं समारोपयतीति ॥ २५२४॥ तदेवं प्राप्तिग्रहणे बाधकं प्रमाणभिधाय, अप्राप्तिग्रहणे साधकमाह
तद्विच्छिन्न इति ज्ञानजनकत्वाद् यथा मनः। ।
श्रोत्रमप्राप्यकारि स्यानान्यथैवं त्वगादिवत् ॥२५२५॥ तदिति तस्मात्। नान्यथैवं त्वगादिवदिति वैधर्म्यदृष्टान्तः । यथा त्वगादेरिन्द्रियस्य विच्छेदेन ग्रहणं न भवति, तथात्रापि स्यादिति यावत् ॥ २५२५ ॥ मनोऽपीत्यादिना दृष्टान्तस्य साध्यविकलतामाशङ्कय परिहरति
मनोऽपि प्राप्यकारीति ये प्राहुः क्षणमात्रतः।
विदूरतरदेशस्थं चेतस्तेषां न युज्यते ॥ २५२६॥ अत्रोयोतकर-कुमारिलादयःप्रमाणयंन्ति-"प्राप्यकारिणी चक्षुःश्रोत्रे; बाह्येन्द्रियत्वात्, घ्राणादिवत् । बाह्यग्रहणमन्त:करणेन मनसा व्यभिचारपरिहारार्थम् । तथा-करणत्वे सति व्यवहितार्थानुपलम्भकत्वात् घ्राणादिवत् । विषयनिवृत्त्यर्थं करणत्वे सतीति विशेषणम्। तथा रूपशब्दौ प्राप्यकारिबाह्येन्द्रियग्राह्यौ; बाह्येन्द्रियार्थत्वात्, गन्धरसवत्। तथा रूपशब्दविज्ञाने प्राप्यकारिबाह्येन्द्रियग्राह्यविषयालम्बने; बाह्येन्द्रियार्थालम्बनत्वात्, गन्धरसज्ञानवत्" इति। अत्र दूषणमाह
यत्तु बाह्येन्द्रियत्वादि प्राप्यकारित्वसाधनम्।
साध्यधर्मविजातीयाद्' विरोधाद् व्यभिचारि तत् ॥ २५२७॥ सुबोधम् ॥ २५२७॥ [G.685) "तस्माच्छोत्रियदृष्ट्यापि" (तत्त्व० २१७५) इत्यादावाह
व्यस्ताः पूर्वं च संयोगविभागव्यतिरेकिणः । वायोरक्षणिकत्वाच्च युक्ता नाव्यतिरेकिणः ॥ २५२८॥ अत एवाविशेषत्वाद् गतिर्नास्योपपद्यते।
वेगाभावादतो नासौ यावद्वेगं प्रतिष्ठते ॥ २५२९॥ १. विच्छिन्न-पा०. गा० ।
२. अन्यधर्म:- पाल, गा० । ३. ०रक्षतिकत्वाच्च-पा०।