________________
श्रुतिपरीक्षा अत्रोद्योतकरः प्राह-"ज्ञानानामाशूत्पत्तेः कालभेदस्याग्रहणान्मिथ्याप्रत्यय एव उत्पलपत्रशतवेधवत्" ( . ) इति, तदेतदसम्यक्; एवं हि सरो रस इत्यादावपि क्रमव्यवसायो न स्यात्; आशूत्पत्तेस्तुल्यत्वात् । ततश्च प्रतीतिभेदो न स्यात्, सर्वासां च बुद्धीनामाशूत्पत्तिरस्तीति न कदाचित् क्रमग्रहणं स्यादिति प्राग् 'निर्लोठितमेतद् विस्तरेण।
पुनः स एवाह-"यद्यप्राप्यकारि चक्षुर्भवेत्, तदा न कुड्यादेरावरणस्य सामर्थ्यमस्तीत्यावरणानुपपत्तिः । यच्च दूरीभूतस्याग्रहणं अन्तिके च ग्रहणं तत्र स्यादविशेषात् । स्यादेतत्-य एव हि चक्षुषो विषयीभवत्यर्थः स उपलभ्यते, यश्च न भवति नासावुपलभ्यत इति? तच्च नैवमः सम्बन्धव्यतिरेकेण विषयीभावानुपपत्तेः। कोऽयं सम्बन्धव्यतिरेकेण [G.683] विषयीभावो नाम? केवलं मयोच्यते सम्बन्ध इति, भवताऽभिधीयते विषयीभावःइति न कश्चिद्विशेषः" ( )इति? तदेतदसम्यक्; कारणीभावो हि विषयीभाव उच्यतेऽस्माभिः, न सम्बन्धः । तथा हि-रूपादिर्विषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारितां प्रतिपाद्यमानो विषयीभवतीत्युच्यते, न तु तेन सहाश्रुिष्यन् । द्विविधश्च सहकारार्थ:-परस्परोपकारो वा, यथाप्रभावश्च दूरादपवरकप्रतिष्ठस्य; एकार्थक्रिया वा, यथोन्मिषतमात्रेण रूपं गृह्णतः। उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते, न तु सम्बन्धी।
स एव कारणविशेषप्रतिनियमोऽसति सम्बन्धे न स्यादिति चेत् । न; स्वकारणशक्तिः प्रतिनियमसिद्धेस्तथाभूत एवासौ स्वकारणादुत्पद्यमान उत्पद्यते। येन कश्चिदेव ज्ञानजनको भवति नान्यः; कारणभेदेन भिन्नस्वभावत्वात् सर्वभावानाम् । यथा च भवतस्तुल्येऽपि सम्बन्धे किमिति चक्षू रूपमेवोपलभते, न रसम्। तेनासम्बन्धानोपलभत इति चेत् ? स एव हि सम्बन्धः किमिति न स्यात्? देशस्याभिन्नत्वात्। न ह्यत्र नियामकं किञ्चिदस्ति कारणम्, येनाभिन्नदेशत्वेऽपि रूपमेवानुसरति चक्षुः, न रसंतद्देशवर्त्तिनमपि, नाप्यतिदूरदेशवर्ति रूपमिति। स्वहेतुर्नियामक इति चेत् ? तदेतदप्राप्तिपक्षेऽपि समानमित्यलं विस्तरेण ॥ २५२२ ॥ भिन्नाभानमित्यादिना परस्य चोद्यमाशङ्कते
. भिन्नाभानां मतीनां चेदेकालम्बनता कथम्? कथं भिन्नाभानां मतीनामेको विषयो भवेत्, एवं हि रसरूपादिबुद्धीनामेकालम्बनता स्यादिति परस्याभिप्रायः। .
परिहारमाह
. तुल्यं रूपधियामेतच्चोद्यं बाह्यार्थवादिनाम् ॥ २५२३॥
रूपधियाम् रूपविषयाणामपि बुद्धीनाम् एतच्चोद्यं समानम्-कथमेकविषयता भवेद् दूरासन्नादिभेदेन स्पष्टादिप्रतिभासानामिति । एतच्च बाह्यार्थवादिनां चोद्यम्, ये विषयगतमेवाकारं वर्णयन्ति न विज्ञानगतम्। ये पुनर्विज्ञानवादिनः, तेषां सर्वमेव विज्ञानं निर्विषयमात्मसंवेदनं स्पष्टाद्याकारभेदवद्भिन्नमेवोपजायत इति न तेषां चोद्यम् । येषामपि बायार्थवादिनाम् 'साकारं १. निर्लोडित०-गा०।
२. तन्त्र-गा०। ३. प्रभावश्च (प्रस) राद०-गा० । .. ४. उपपद्यते-गा०। ५. ते-पा०, गा०।