________________
५८०
तत्त्वसंग्रहे अयस्कान्तेन लोहस्य सामर्थ्यनियमस्थितेः॥२५१८ ॥ यद्यपि सर्वोऽप्राप्तः, तथापि पदार्थानां शक्तिप्रतिनियमान्न पूर्वस्य विषयस्य ग्रह:=ग्रहणं प्राप्नोति । यथा-अयस्कान्तो नामोपलोऽप्राप्तमय: कर्षन्नपि न सर्वमप्रासं कर्षति ।। २५१८ ॥ अयस्कान्तप्रभेत्यादिना शङ्करस्वामिमतेन दृष्टान्तसिद्धिमाशङ्कते- .
अयस्कान्तप्रभाप्राप्त्या तत्राप्याकर्षणं यदि।
ननु प्रभा न दृश्येयं कथमस्तीति गम्यते ! ॥ २५१९॥ स हि प्राह-"तत्राप्ययस्कान्तमणिप्रभाववशादेवाकर्षणमयसः, अन्यथा सर्वदेशावस्थितानामयसामाकर्षणं स्यात् । यद्यपि तस्य प्रभा प्रदीपप्रभावान्नोपलभ्यते, तथाप्यनुमेया; व्यवधाने दूरे' 'चाकर्षणदर्शनात्' ( ) इति। नन्वित्यादिना प्रतिविधत्ते । न दृश्यते इत्यनुपलम्भेन सद्व्यवहारनिषेधं करोति ॥ २५१९॥
यदपि प्रसङ्गसाधनमुक्तम्-"सर्वदेशावस्थितानामयसामाकर्षणप्रसङ्गात्'' इति, तत्परिहरन्नाह
कस्मादाप्तं न काष्ठादि सा समाकर्षति प्रभा। .
तच्छक्तिनियतत्वाच्चेदप्राप्तावपि तत्समम्॥ २५२० ।।। प्राप्तिपक्षेऽपि तुल्यः प्रसङ्ग:-कस्मात् साऽयस्कान्तप्रभा सर्वं प्राप्तं काष्ठादिकं [G.682] नाकर्षतीति। पदार्थस्वभावप्रतिनियमानातिप्रसङ्ग इति चेत् ? अप्राप्तिपक्षेऽपि पदार्थस्वभावस्य नियामकत्वं केनापहृतम्, येन तत्र नेष्यते ! तस्माददृष्टप्रभाकल्पनं व्यर्थमेव ॥ २५२० ॥
यदुक्तम्-"तत्र दूरसमीपस्थग्रहणाग्रहणे समे। स्यातां न च क्रमः" (तत्त्व० २१७४) इति, तत्राह
दूरमध्यसमीपस्थैरक्रमेणैव गम्यते।
प्रयोगानन्तरं तत्र सर्वेषां ज्ञानजातितः ॥ २५२१॥ क्रमग्रहणमसिद्धम्; शब्द प्रयोगानन्तरं युगपद्विज्ञानोत्पत्तेः॥ २५२१ ॥ यच्चोक्तम्-"नापि तीव्रमन्दादिसम्भवः" (तत्त्व० २१७४) इति, तत्राह
दूरासन्नादिभेदेन स्पष्टास्पष्टं यथेक्ष्यते।
रूपं तथैव शब्देऽपि तीव्रमन्दादिविद् भवेत्॥ २५२२॥ यथा रूपमप्राप्य गृह्यमाणमव्यापि च स्पष्टमीक्ष्यते, तथा शब्देऽप्यव्यापिन्यप्राप्य गृह्यमाणे च तीव्रमन्दादिवेदना भविष्यति । ननु च परं प्रति रूपस्याप्यप्राप्य ग्रहणमसिद्धम्, तत् कथं दृष्टान्तत्वेनोच्यत इति ? नैष दोषः; यद्यपि परस्य वचनमात्रान्न सिद्धम्, तथापि यत् प्रमाणसिद्धं तदुभयोरपि सिद्धम्। किं पुनरत्र प्रमाणम् ? सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात् । यो हि गतिमान् स सन्निकृष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण; यथा देवदत्तो ग्रामाद् ग्रामान्तरं गच्छन्। शाखाचन्द्रमसोस्तु तुल्यकालमुन्मेषसमनन्तरमेव ग्रहणं दृष्टम्। तस्मादप्राप्यकारि चक्षुरिति गम्यते।
४. मध्यापि-पा० ।
११. ध्यवधारे-पा०। ५. प्यध्यापि०-पा०।
२. चाकर्षणाo- पा०, गा०। ६-६. परस्य-पा०. गा०।
३. दृश्येयम्-- पा०, गा०। ७. ० ग्रहणम्-पा०, गा० ।