________________
५७९
श्रुतिपरीक्षा भवतु चायं पक्षः, तथापि दोष एवेति दर्शयन्नाह
भावाच्चाव्यतिरिक्तत्वान्नित्यत्वं संस्कृतेरपि।
भाववत्तेन तजन्यं विज्ञानं सर्वदा भवेत् ॥ २५१३॥ भावस्वरूपवत् संस्कारस्यापि नित्यत्वं प्राप्नोति; व्यतिरेकात् । ततश्चायमपरो दोष इत्याह- तेनेत्यादि । २५१३॥ द्वितीयेऽपि पक्षे दोषमाह
व्यतिरेके तु तस्येति सम्बन्धो नोपपद्यते।
श्रोत्रस्याकारकत्वं च शक्तेर्ज्ञानसमुद्भवात् ॥२५१४॥ शक्ते वाद व्यतिरेकेऽभ्युपगम्यमाने तस्यासौ शक्तिरिति सम्बन्धो न स्यात्; अनुपकार्यस्य पारतन्त्र्यायोगात्। अथरे श्रोत्रं शक्तिमुपकरोति; व्यञ्जकस्यैव नादादेरुपकारकत्वेनेष्टत्वात्। अथ श्रोत्रस्याप्युपकारकत्वम्; तदा शक्त्युपकारिण्या अपि शक्ते: श्रोत्राद् व्यतिरेक इत्यनवस्था स्यात् । ततश्च शक्तीनामेव परम्परया घटनाच्छक्तेरेव कार्योत्पत्तेः श्रोत्रस्याकारकत्वं स्यात् । ततश्चावस्तुत्वप्रसङ्गः। अथ शक्त्युपकारिण्याः शक्तेरव्यतिरेकोऽभ्युपगम्यते? क इदानीमाद्यायां शक्तावव्यतिरेके प्रद्वेषः ! किञ्च-नित्यं शक्त्युत्पत्तिप्रसङ्गः; तद्धेतोः श्रोत्रस्य नित्यत्वात् । न चानुपकार्यस्य सहकार्यपेक्षा काचित् ॥ २५१४॥ तृतीयं पक्षमाह
भेदाभेदविनिर्मुक्तं व्यस्तं पक्षान्तरं ततः।
उत्तरं श्रोत्रसंस्कारादसंस्कृतधियोच्यते ॥ २५१५॥ व्यस्तमिति। पुद्गलादिपरीक्षायाम्। एकस्यैकदा विधिप्रतिषेधायोगात्। तथा हि [G.681) भेदाभेदौ परस्परपरिहारस्थितलक्षणौ; तयोरेकस्वाभावव्यवच्छेदेनैवापरस्य परिच्छेदात् । यस्य हि यदात्मव्यवच्छेदमन्तरेण न स्वभावः परिच्छिद्यते, स तत्परिहारेण स्थितः; यथा भावाभावयोरन्यतरः। यौ च परस्परपरिहारस्थितलक्षणौ, तयोरेकस्वभावनिषेधोऽपरविधिनान्तरीयक इत्यन्यत्वनिषेधे सामर्थ्यात् तादात्म्यविधिरिति तदानीमेव तस्यापि प्रतिषेधो न युक्तः, अन्यत्वस्याप्यप्रतिषेधप्रसङ्गादित्येवमुभयपक्षे दोषो वाच्यः ॥ २५१५ ॥
.. 'एतेनैव निषेद्धव्या विषयोभयसंस्कृतिः।
तस्मान्नित्येष्वभिव्यक्तिः सर्वथापि निरास्पदा ॥ २५१६॥ प्रकृत्या ज्ञानोत्पादनयोग्ययोग्यास्वभावविकल्पद्वारेण। तस्मादित्यादिनोपसंहरति ।।
ततश्च व्यक्तिमाश्रित्य दीर्घह्रस्वक्रमादयः।
ये केचित् प्रविभज्यन्ते तेऽपि सर्वे निरास्पदाः ॥२५१७॥ क्रमादय इत्यादिशब्देन प्लुतोदात्तादिपरिग्रहः ॥ २५१७ ॥ 'येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते' (तत्त्व० २१७३) इत्यादावाह
__ अप्राप्तिमात्रसाम्येऽपि न सर्वस्य ग्रहो यथा। १-१. पा० पुस्तके नास्तिः प्राप्रोति तेन वस्तूनां०-गा। २.न च-गा०॥
३. ० संस्कृततयो०-पा०, गा०।