________________
५७८
तत्त्वसंग्रहे
एवमित्यादिनोपसंहरति
एवं तद्विषयं ज्ञानं सदोत्पद्येत वा न वा ।
इत्येकान्ते स्थिते व्यर्था श्रोत्रसंस्कारकल्पना ॥ २५०८॥ न वेति अजनकत्वपक्षे। इत्येकान्त इति । नित्यं ज्ञानस्य सदसत्तालक्षणे ॥ २५०७२५०८॥
एवं तावच्छ्रोत्रस्य संस्कारमभ्युपगम्य विषयस्य जनकाजनकस्वभावचिन्तया [G.679] श्रोत्रसंस्कारवैयर्थ्यमुक्तम्, इदानीं श्रोत्रसंस्कार एव न सम्भवतीति प्रतिपादयन्नाह
कादाचित्के हि संस्कारे सत्येव ज्ञानसम्भवः।
कदाचिदिति शोभेत संस्कारपरिकल्पना ॥ २५०९॥ एवं हि संस्कारकार्य विज्ञानं कादाचित्कं युज्यते, यदि संस्कार: कादाचित्को भवेत् । अन्यथा कारणे नित्यमविकले स्थिते तत्कार्यं किमिति कदाचिद् भवेत् ॥ २५०९ ॥ न च संस्कार: कादाचित्को नित्यस्य श्रोत्रस्य युज्यते इति दर्शयन्नाह
ज्ञानकार्यावसेयश्च संस्कारः शक्तिलक्षणः। . .
तच्च ज्ञानं सदाभावि यदि वा भावि सर्वदा ॥ २५१०॥ तथा हि श्रोत्रादेः संस्कारो ज्ञानकार्येणांवसीयमानः शक्त्यात्मक एव संस्कारो भवेत्; शक्तरेव कार्यावसेयत्वात्। सा च शक्तिः श्रोत्रस्यात्मभूतैव, न व्यतिरेकिंणी'; तत एव' कार्योत्पत्तेः श्रोत्रस्य कारणत्वप्रसङ्गात् । सम्बन्धासिद्धेश्च शक्तिसद्भावे सद्भाविज्ञानं सदा भवेत् ॥ २५१०॥
कादाचित्कं कथं नाम संस्कारं तस्य सूचयेत्।
उत्तरं श्रोत्रसंस्कारान्नातः साधु प्रकाशितम् ॥२५११॥ अथासद्भावः? तदा न कदाचित् तद्भांविज्ञानं भवेत् । ततश्च कदाचित्कत्वं ज्ञानस्य न स्यात्। तस्मात् कादाचित्कं विज्ञानं कथं श्रोत्रस्य शक्तिलक्षणं संस्कारं सूचयेत् ! नेव ॥ २५११॥
अथापि स्यात्-नैव स्वाभाविकी शक्तिर्ज्ञानकार्यानुमेया, तेन कदाचित्कं विज्ञानं शक्तेः सूचकमुपपद्यत एव? इत्याह
शक्तिराधीयते श्रोत्रे यदि वाऽव्यतिरेकिणी।
व्योम्नो दिशो वा नित्यत्वं ततो हीयेत जन्मतः॥२५१२॥ आत्मभूता वा शक्तिराधीयेत, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्ता वा-इति पक्षत्रयम्। प्रथमे पक्षे शक्तिस्वरूपवदनित्यत्वं श्रोत्रस्योभयात्मकस्यापि प्राप्नोति। कुतः? जन्मतः-उत्पत्तेः । अथापि स्यात्-न श्रोत्रस्य शक्तितोऽनन्यत्वमभ्युपगतम्, किं तर्हि ? शक्तेरेव श्रोत्रादिति, तदेतत्पश्यत महतो ह्यन्ध्यान्ध्यस्य विलसितम्! कथं हि नामैकस्य स्वभावस्य संश्रेषे तदैवापरो दूरीभवेत्; परस्परस्वभावानुप्रवेशलक्षणत्वादभेदस्य ! [G.680] न हि सलिलं पयसो दवीयसि गोचरे वर्तमानमनुभवति तत्संश्लेषमिति यत्किञ्चिदेतत् ॥ २५१२॥
१-१. तद्व्यतिरिकिणी तत:-पा०, गा०।
२-२. उत्तरश्रोत्र-जै० पुस्तके पाठा०।
३.ह्यान्ध्यस्य-पा०, गा०।