________________
A
द्वितीयेऽपि पक्षे दोषमाह
तज्ज्ञेयात्मा न शब्दश्चेदतदात्मरसादिवत् ।
•
न तद्बोधस्वभावं स्याच्छ्रोत्रज्ञानं तथा सति ।। २५०५ ॥
श्रुतिपरीक्षा
सुबोधम् ॥ २५०५ ॥
एतच्च सर्वं तदनुपकार्यस्यापि ज्ञानस्य तद्बोधस्वभावत्वमभ्युपगम्योक्तम्, इदानीं तद्बोधस्वभावत्वमेवासति सम्बन्धे ज्ञानस्यायुक्तमिति प्रतिपादयन्नाह
को वा ज्ञानस्य सम्बन्धः शब्देन यत इष्यते ।
तच्छब्दबोधरूपं हि न तादात्म्यं विभेदतः ॥ २५०६ ॥ न च तस्य तदुत्पत्तिः शब्दस्याजनकत्वतः ।
[G.678] द्विविध एव हि वस्तूनां प्रतिबन्धः - तादात्म्यम्, तदुत्पत्तिश्च; अन्यत्रोपकाराभावात् । न चानुपकार्योपकारकयोः सम्बन्धो युक्तः ; अतिप्रसङ्गात् । स च द्विविधोऽपि प्रतिबन्धो नास्ति शब्दज्ञानयोरिति कथं तद्बोधस्वभावज्ञानमसति प्रतिबन्धे भवेत् ! अन्यथा ह्यतिप्रसङ्गः स्यात् ।
सेति तदुत्पत्तिः ॥ २५०७ ॥
५७७
अथापि स्यात् —तदाकारोत्पत्त्या तद्बोधस्वरूपं तज्ज्ञानं व्यवस्थाप्यते विनापि प्रतिबन्धेनेति ? तदेतदसम्यक् ; निराकारज्ञानाभ्युपगमात् । न हि मीमांसकै: साकारं ज्ञानमभ्युपगम्यते । भवतु वा, तथाप्ययुक्तम्; शब्दस्य परोक्षत्वप्रसङ्गात् । एवं हि शब्दपरोक्षत्वमेव स्यान्न प्रत्यक्षत्वम्, ततश्च तत्साधकप्रमाणाभावात् तदाकारं तद्विज्ञानमित्येतदेव न सिध्येत् । नापि कार्यव्यतिरेकात् तत्सिद्धिः; तस्य जनकत्वानभ्युपगमात् ।
स्यादेतृत्–यस्यापि साकारवादिनो जनक एव विषयः, तस्यापि सर्वदैवार्थस्य परोक्षत्वात् कथमर्थाकारत्वं ज्ञानस्यावगतमिति ? सत्यम्; किन्त्वयं तस्योपायः - यत् तत्कार्यव्यतिरेकतः कारणान्तरं निश्चितम् तद्विज्ञाननस्य नीलाद्यकारभेदकत्वेन निश्चितमन्वयव्यतिरेकाभ्याम्। तथा हि-चक्षुरालोकमनस्काराणां सर्वविज्ञानेषु तुल्यत्वान्न तत्कृतो ज्ञानस्य नीलादिभेद इति सामर्थ्याद्यत्तत् कारणान्तरं व्यतिरेकतोऽनुमितम्, तत्कृतोऽयं भेद इति निश्चीयते । तेन तत्कृतकत्वात् तस्यासावाकारो ज्ञानेन गृहीत इति व्यवस्थाप्यते । न त्वयमपि भवतोऽस्त्युपायः; तस्य कारणत्वानभ्युपगमात् ।
स्यादेतत्-चक्षुरादीनामपि सर्वदा परोक्षत्वात् सर्वविज्ञानेष्वविशिष्टत्वं कथा "सतमिति ? सत्यमेवमेतद् विज्ञानवादचिन्तायाम् । स हि विज्ञानवादी स्वप्नादाविव समनत्ययकृतमेव विज्ञानस्य विशेषं वर्णयति, न बाह्यकृतम्, किन्तु सति बाह्येऽर्थे सर्वम दुच्यते अन्यथा हीदमेव योजनीयम् - कार्यव्यतिरेकतोऽपि कथं बाह्यसिद्धिः स्यादिति कारणमात्रास्तित्वं सिध्येत्, न तु बाह्यम् । तत्तु कारणं स्वप्रादाविवान्तरमपि सम्भाव्यमित्यलं प्रसङ्गेन । अथापि जनकत्वमभ्युपगम्यते शब्दस्य, तथापि दोष इति दर्शयन्नाह—
तदुत्पत्तौ तु नियमात् सा सदाभाविनी भवेत् ॥ २५०७ ॥
१. यच्छ्रोत्र- पा०, गा० ।
२. जनकत्व... - पा० ।
३. तत्कृतत्वात्- पा०, गाए।