________________
५७६
तत्त्वसंग्रहे ज्ञाने नोपयोगं प्रतिपद्यते न स तज्ज्ञानज्ञेयः, यथा रसादिः श्रोत्रज्ञाने। नोपयुज्यते च शब्द: श्रोत्रज्ञान इति व्यापकविरुद्धोपलब्धिः । नायमनैकान्तिकः; अनुपकारस्य ज्ञेयत्वे सति नियमाभावाद् रसादेरपि श्रोत्रविज्ञानविज्ञेयत्वप्रसङ्गात् ॥ २४९९ ॥
शब्दबोधस्वभावं वा जनितं नाम तैरिदम्।
ज्ञानं शब्दनिराशंसैः संस्कृतश्रवणादिभिः ॥ २५००॥ ननु च स्वकारणस्य नियमकत्वान्नातिप्रसङ्गो भविष्यति, तथा हि-संस्कृतश्रोत्रसमनन्तरप्रत्ययादिभ्यः समुत्पद्यमानं शब्दबोधात्मकमेवोत्पद्यते, न रसादिबोधात्मकम्; कारणशक्तिप्रतिनियमात्। अवश्यं च शब्दस्य हेतुत्वाङ्गीकरणेऽपि कारणशक्तिप्रतिनियमोऽङ्गीकर्त्तव्यः । तथा हि-तुल्येऽपि सर्वेषां हेतुत्वे कस्माच्छब्दबोधात्मकमेव भवति शब्दज्ञानं न श्रोत्रादिबोधात्मकमिति चोद्ये हेतुशक्तिप्रतिनियमैरेवोत्तरं वाच्यमित्येतत् सर्वमालोच्यानैकान्तिकतां परिहरन्नाह-शब्दबोधस्वभावं वेत्यादि। नामेत्यभ्युपगमे। यथा चायं पक्षो न युज्यते तथा पश्चात्-"को वा ज्ञानस्य'' (तत्त्व० २५०६) इत्यादिना प्रतिपादयिष्यति। संस्कृतश्रवणादिभिरिति । आदिशब्देन समनन्तरप्रत्ययादिपरिग्रहः ॥ २५०० ।।
यदि नाम शब्दो न कारणम्, तथापि दोष एव, तथा हि-किमसौ शब्दः प्रकृत्या तज्ज्ञानज्ञेयस्वभावः? उत नेति?-पक्षद्वयम्। प्रथमे पक्षे दोषमाह
तज्ज्ञानज्ञेयरूपो यं तथापि त्वनुवर्तते। शब्द इत्यनुवृत्तिः स्याद् विज्ञानस्यापि तस्य ते॥२५०१॥ अन्यथा ह्यनुवृत्तानाज्ञानं स · त्वनुवर्तते। तज्ज्ञेयः शब्द इत्येवं परा स्याद् व्याहतिस्तव ॥ २५०२॥ ज्ञानज्ञेयस्वभातौ तौ बद्धौ शृङ्खलयेव हि।
एकभावे द्वितीयस्य प्राप्तिरव्यभिचारतः ॥ २५०३॥ [G.677) यदि तज्ज्ञानज्ञेयस्वभावः शब्दः स्यात्, तदा सर्वकालं शब्दरूपवत् तद्विज्ञानस्यापि नित्यत्वं स्यात्; तद्विज्ञेयस्वभावानुवृत्तेः । न हि देवदत्तस्य दण्डसम्बन्धस्वभावानुवृत्तौ न दण्डस्यानुवृत्तिर्भवेत्। बद्धौ शृङ्खलयेव हति। हिशब्दो यस्मादर्थे । यस्माज्ज्ञेयज्ञानयोः स्वभावौ शृङ्खलयेव बद्धौ, तस्मादेकस्वभावसद्भावे द्वितीयस्य प्राप्तिसद्भावः प्राप्नोति, अव्यभिचारादिति सिद्धम् ।। २५०१-२५०३ ॥ भवत्वेवम्, को दोषः? इत्याह
संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव हि।
श्रोत्रासंस्करणेऽपीति ज्ञानमाक्षिप्यते स्फुटम् ॥ २५०४॥ संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव होति । शब्दोऽनुवर्तत एव इत्यध्याहारः । यस्मात् संस्कृतश्रवणोत्पाद्येन ज्ञानेन सम्बद्धः शब्दः सर्वदानुवर्त्तते, तस्मादसंस्कृतश्रोत्रस्यापि तज्ज्ञान प्राप्नोतीति व्यर्थं श्रोत्रसंस्करणम्॥ २५०४॥ १. यथापि- पा०, गा०।
२. वृत्तं न ज्ञानं– पा०, गा० । ३. पा०, गा० पुस्तकयोनास्ति।
४. तद्विज्ञानं-पा०, गा०।