________________
श्रुतिपरीक्षा
५७५ तत्संस्कारानुकारेण नातो भिन्ना धियो ध्वनौ ॥ २४९३॥.. व्यञ्जकभेदो हि ध्वनौ-शब्दे भेदविभ्रमनिमित्तमुपवर्ण्यते। न च नित्यस्य कस्यचिद् व्यञ्जकोऽस्ति; तस्य तत्राकिञ्चित्करत्वात्। न चाकुर्वन् कञ्चिद् विशेष व्यञ्जको युक्तः; अतिप्रसङ्गात्। एवं हि यत्किञ्चिद्यस्य कस्यचिद् व्यञ्जकं स्यात्। तस्मान्न 'व्यञ्जकसंस्कारानुकाराद् ध्वनौ शब्दे भिन्ना बुद्धयो युक्ताः ॥ २४९३ ॥
यदुक्तम्-"यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते" (तत्त्व० २१६९) इत्यादि, तत्रेदं प्रथमं श्लोकार्थमुपक्षिप्यैकेन श्लोकेन, द्वितीयादिश्लोकैर्दूषयन्नाह
घटादिग्रहणार्थं हि यथा शक्तिं नियच्छति। न प्रदीपस्तथा श्रोत्रे ध्वनिः शब्दोपलब्धये ॥२४९४॥ श्रोत्रोपलब्धौ . योग्यश्चेच्छब्दः प्रकृतिसंस्थितः। असंस्कृतेऽपि तच्छ्रोत्रे किमर्थं नोपलभ्यते॥२४९५॥ योग्यकारणसद्भावाद् भवेदेवोपलम्भनम्। संस्कृतश्रोत्रसद्भाववेलायामिव तस्य तत्॥२४९६॥ . नोपलब्धौ स योग्यश्चेत् पश्चादपि कथं भवेत्। भावे च योग्यतायोगी शब्दो जातोऽपरो भवेत्॥ २४९७॥ अथ पश्चादपि ज्ञानं नैव तबलभावि तत्।
संस्कृतश्रवणादिभ्यस्तस्योत्पादस्तु वर्ण्यते॥२४९८॥ घटादिग्रहणार्थं हीत्यादि। संस्कृतयतान्नाम श्रोत्रम्, इदं तु वक्तव्यम्-किं प्रकृत्या शब्द: स्वविषयज्ञानोत्पत्तौ समर्थः? आहोस्विदसमर्थ इति? आद्ये पक्षे श्रोत्रसंस्कारात् प्रागप्युपलब्धिप्रसङ्गः । एतदेवाह-असंस्कृतेऽपीत्यादि । तस्येति शब्दस्य। तदिति तस्मात् । प्रयोगस्तु 'यदि विकलकारणम्' इत्यादिकः पूर्ववद् वाच्यः, श्रोत्रसंस्कारवैयर्थ्यप्रसङ्गश्च।
अथ द्वितीयपक्षः, तदा श्रोत्रसंस्कारेऽपि शब्दोपलम्भो न प्राप्नोति; सर्वदैव शब्दस्यायोग्यत्वात्। ततश्चास्मिन्नपि पक्षे श्रोत्रसंस्कारवैयर्थ्यमेव । प्रयोगः-यो यदुत्पादनायोग्यावस्थातो न विशिष्यते न स तत् करोति, यथा कोद्रवः शाल्यङ्करम्। [G.676] न विशिष्यते च संस्कृतेऽपि श्रोत्रे शब्दो ज्ञानोत्पादनायोग्यावस्थात इति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयति-भाव इति। योग्यतया सम्बन्धो यस्यास्ति स योग्यतायोगी ॥ २४९४-२४९८॥ .
ननु च यदि हि शब्दो ज्ञानोत्पप्रत्तौ कारणमिष्टः स्यात्, तदा तत्र तस्य योग्यायोग्यविकल्पोऽवतारं लभेत, यावता श्रोत्रमेव संस्कृतं शब्दोपलब्धौ कारणमिष्यते, न शब्दः, तेन न भवति यथोक्तदोषप्रसङ्गः?-इत्येतदागूर्य परिहरन्नाह
शब्दस्याज्ञेयतैवं स्यात् तस्मिन्ननुपयोगतः।
तस्य नैवं रसादिभ्यो विशेषः कश्चनास्ति हि॥२४९९॥ एवं हि रसादिवच्छब्दस्यानुपयोगात् तज्ज्ञानज्ञेयता न प्राप्नोति। प्रयोगः-यो यत्र १. ०संस्कारानुरूपेण-पा०, गा०। २. संस्काराद्-पा०. गा०। . ३. व्यक्तिं- पा०, गा० । ४. चायोग्यता०-जै।
५. किनु-पा०, गा०।
६. ० स्याग्राह्यतैवं-पा०, गा०।