________________
५७४
तत्त्वसंग्रहे
अथापि स्यात्-यदि नाम शब्दो न तस्य ज्ञानस्य विषयः, निर्विषयत्वं तु तस्य कथम् ? इत्याह
द्रुतमध्यादिभेदाद्धि नान्यः शब्दोऽवभासते।
अतद्रूपे च ताद्रूप्यज्ञानं नाविषयं कथम् ॥२४८८॥ [G.674] द्रुतमध्यविलम्बिनाऽऽकारेण हि ज्ञानमुपजायते, न च शब्दस्य द्रुताकारः समस्ति; तस्य नित्यव्यापित्वेनैकरूपत्वात्। न चान्यो द्रुताकारवानर्थः सम्भवति यः प्रत्यवभासेत। 'तस्मादाकारानुरूपस्यार्थस्याभावान्निर्विषयत्वमेवास्य ॥ २४८८ ॥
स्यादेतत्-स एव शब्दो द्रुतादिरूपेणान्यथा च भासमानस्तस्यालम्बनं भविष्यति, यथोक्तम्- "सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्" (श्लो० वा०, नि० १०८) इति ? अत्राह
अन्यथा च तमेवार्थं वेत्तीति व्याहतं वचः। . .
अन्याकारस्य संवित्तौ स ार्थो विदितः कथम् ॥२४८९॥ व्याहतमिति । तत्त्वान्यथाकारयोः परस्परपरिहारस्थितलक्षणत्वेनैकत्र धर्मिण्ययोगात्।
किञ्च-सर्वमेव भ्रान्तं निराकारपक्षे साकारपक्षे च निर्विषयमेवेदं ज्ञानमिति प्रतिपादयन्नाह
निराकारे हि विज्ञाने बाह्याकारः स ते ध्रुवम्।
बाह्यश्च न तदात्मेति किमसौ विद्यते तथा ॥ २४९०॥ निराकारज्ञानवादिनां हि नीलाद्याकारोऽर्थगत एवानुभूयते । न च यथा भ्रान्तज्ञानप्रतिभासी पीतादिः,तथा शङ्खादिरर्थोऽवस्थित इति स्फुटतरमेवाविषयत्वमस्य।
ननु च पीताद्याकारो यदि नार्थगतः, तदावश्यं तेन ज्ञानगतेन भवितव्यम्; अन्यतोभयत्राभावे कथमनुभूयेत, ततश्च ज्ञानगतत्वे कथं निराकारता विज्ञानस्येति वक्तव्यम्? सत्यमेतत्; किन्तु अभ्युपगम्य निराकारज्ञानवादिपक्षमेतद् विज्ञानस्य निर्विषयत्वमुच्यते । यस्तु निराकारं ज्ञानमिच्छति तेनैवात्र परिहारो वाच्यः ! ।। २४९०॥
साकारज्ञानपक्षेऽपि बाह्याकारानुरूपतः। ज्ञाने निर्भाससम्भूतावों विदित उच्यते ॥२४९१॥ इह बाह्यानुरूपेण न तु ज्ञानं प्रवर्त्तते।
तस्मानिर्विषयं सर्वं भ्रान्तं चित्तमिति स्थितम् ॥ २४९२॥ साकारज्ञानपक्षेऽप्यर्थसदृशात्माकारानुभवादर्थानुभवो व्यवस्थाप्यते। न च भ्रान्ते ज्ञानेऽर्थसदृशात्माकारानुभूतिरस्तीत्यविषयमेव । न च साकारानिराकाराभ्यामन्यः प्रकारोऽस्ति विषयग्रहणं प्रति । तस्मात् सर्वमेव भ्रान्तं ज्ञानं निर्विषयमिति सिद्धम्॥ २४९१-२४९२ ॥ [G.675] न चाप्यत्र भ्रान्तिनिमित्तं सम्भवतीति दर्शयन्नाह
न च व्यञ्जकसद्भावो युक्तो नित्ये विशेषतः । १. ० दाकारान् रूप०-पा० ।
२-२. ० मेवेति-पा०, गा०। . ३. प्रतीति–पा०, गा०/