________________
श्रुतिपरीक्षा
५७३ यश्च "परकल्पितगत्ववत्" (तत्त्व० २१४२) इति दृष्टान्तः, सोऽपि धर्म्यसिद्ध इति दर्शयन्नाह
. वास्तवी चानुमा सर्वा द्वयसिद्धमपेक्षते।
दृष्टान्तादि ततस्तेन दृष्टान्तो धार्यसिद्धिभाक् ॥२४८१॥ दृष्टान्तार्दीति आदिशब्देन हेत्वादिपरिग्रहः ॥ २४८१॥
किञ्च-अनुक्तोऽपि वादिना य एवेच्छया विषयीकृतः स एव साध्य इष्यते। न चापि भवता गत्वमात्रं सिसाधयिषितम्, किं तर्हि ? अनेनोपायेन गकारस्यैकत्वं प्रतिपादयितुमिष्टम्। अस्यां च प्रतिज्ञायां प्रत्यक्षादिबाधा पूर्वमुक्तेति दर्शयन्नाह-.
सर्वश्चायं प्रयत्नस्ते गकारैकत्वसिद्धये ।
तत्र प्रत्यक्षबाधा च दुर्निवारोदिता तव ॥२४८२॥ [G.673] अयमिति व्यतिरिक्तगत्वाधारनिषेधः। प्रत्यक्षबाधा चेति। चशब्दादनुमानबाधापरिग्रहः। उदितेति। "यन्मनोज्ञामनोज्ञादि०" (तत्त्व० २४६१) इत्यादिनोक्ता ॥ २४८२ ॥ . यदुक्तम्-"द्वयसिद्धस्तु'' (तत्त्व० २१४४) इत्यादि, तत्राह
ह्यस्तनाद्यतनाद्याश्च . गवर्णप्रत्यया इमे। क्रमभावेन नैकार्था रसरूपादिबुद्धिवत् ॥२४८३॥ अतो न द्वयसिद्धोऽयमेको वर्णः सदा स्थितः।
अदोषं कल्पितस्यैव नित्यत्वं त्वस्य कल्पितम् ॥२४८४॥ 'उदिता' इत्यत्रापि लिङ्गविभक्तिपरिणामेन सम्बध्यते। ततः प्रत्यक्षानुमानाभ्यां शब्दभेदस्य प्रतिषिद्धत्वानको द्वयसिद्धो वर्णात्माऽस्तीति कल्पितस्यैवान्यापोहस्य नित्यत्वं कल्पितम्; तुल्यप्रत्यवमर्शप्रत्ययेनैकत्वाध्यवसायात् ॥ २४८३-२४८४ ॥
यदुक्तम्-"नादेन संस्कृतात्" (तत्त्व० २१४७) इत्यादि, तत्राह.. शब्दोपलम्भवेलायां कर्णपर्यन्तवर्तिनः।।
न वायवोऽवगम्यन्ते श्रोत्रसंस्कारकारिणः॥२४८५॥
नादेन संस्कृताच्छ्रोत्राद् यदा शब्दः प्रतीयते। ... तदुपश्लेषतस्तस्य बोधोऽध्यक्षेण बाध्यते ॥२४८६॥
यदि हि श्रोत्रसंस्कारकारिणो वायवः केनचित् प्रमाणेन सिद्धाः स्युः, तदैवं स्याद् वक्तुम्-'नादेन श्रोत्रं संस्क्रियते' इति; न चैते सिद्धाः, तस्मात् तदुपर्धेषतः शब्दोपशेषतः तस्य नादस्य बोधोऽध्यक्षमिति कल्पनास्पदमेतत् ॥ २४८५-२४८६॥ यदुक्तम्-"मधुरं तिकरूपेण" (तत्त्व० २१४९) इत्यादि, तत्राह
तिक्तपीतादिरूपेण प्रवृत्तं मधुरादिषु।
ज्ञानं निर्विषयं यद्वच्छब्दज्ञानं तथा भवेत् ॥ २४८७॥ एतेन यदुक्तम्-"शब्दे बुद्धिस्तु तद्वशात्" (तत्त्व० २१४८) इति, तदपास्तम्। न ह्यनाकारस्य ज्ञानस्यान्यो विषयो युक्तः; अतिप्रसङ्गात् ॥ २४८७॥ १. एवायं-पा०, गा०। २. तथा— जै० पुस्तके पाठा०। ३.अपोह- गा०। १. यथा- गा० ।