________________
५७२
तत्त्वसंग्रहे
भ्रान्तत्वमस्य कथं सिद्धम् ? इत्याह
भावतः क्षणिकत्वात् तु तावत्कालमपि स्थिरः । नैवायमिति किं तस्य स्थितिः पश्चादपीष्यते ।। २४७३ ॥
"
'यथा शस्त्रादिभिश्छेदः " (तत्त्व० २१३९) इत्यादावाह - घटादावपि नैवास्ति किश्चिन्नाशस्य कारणम् ।
इतीदमपि निर्दिष्टं तत् किं' शब्दे भविष्यति ॥ २४७४ ॥ इतीदमपि निर्दिष्टमिति। स्थिरभावपरीक्षायाम् विनाशस्याहेतुत्वप्रतिपादनेन । यदा घटादावपि नैव नाशकारणमस्तीति क्व शब्दे भविष्यतीति । नाशकारणमिति व्यवहितेन सम्बन्धः। अनेन च सिद्धसाध्यता, धर्म्यदृष्टान्तस्य चासिद्धतोक्ता भवति ॥ २४७४ ॥ “देशकालप्रयोक्तृणाम्” (तत्त्व० २१४०) इत्यादावाह - विप्लवे प्रत्यभिज्ञायाः पुरस्तादुपपादितः ।
1
देशकालप्रयोक्तृणां भेदाद् वर्णो विभिद्यते ॥ २४७५ ।। षड्ज-ऋषभ-गान्धार - पञ्चमादिप्रभेदतः प्रत्यक्षतो हि विज्ञाता गव्यक्तिरपरा स्फुटा ॥ २४७६ ॥ न च व्यञ्जकभेदेन युक्तैषा भेदसंस्थितिः । व्यक्तिर्नित्येषु नास्तीति पुरस्तादभिधास्यते ॥ २४७७॥ [G.672] सुगमम् ॥ २४७५- २४७७ ॥
"गकारोऽत्यन्त० " (तत्त्व० २१४२ ) इत्यादिके प्रयोगे सिद्धसाध्यतादोषमाहगकारव्यतिरिक्तं च सामान्यं गत्वमिष्यते ।
वास्तवं न प्रयोगे तो दुर्वारा. सिद्धसाध्यता ॥ २४७८ ॥
इष्यत इति । नेति वक्ष्यमाणेन सम्बन्धः ॥ २४७८ ॥
अथापि स्यात् – अन्यापोहात्मकस्यापि गत्वस्याश्रयो न भवतीति ? अन्यपोहात्मकस्यापि न गत्वस्य समाश्रयः । इत्थमेवेति चेन्नैवमाश्रयासिद्धताप्तितः ।। २४७९ ।। भवेत्। गान्यबुद्ध्यनिरूप्यत्वं कस्य धर्मो हि धर्मिणः ॥ २४८० ॥
अगकारपरावृत्तगवर्णाभावतो
इत्थम् = अनेन प्रकारेण साध्यते, तेन सिद्धसाध्यता न भवति, न ह्यन्यापोहाधारो गकारादिर्भवतो नेष्ट इति पूर्वपक्षं प्रतिक्षिपति । एवं हि साध्यमाने हेतोरसिद्धिता प्राप्नोति । तथा हि-न ह्यन्यापोहो नामान्य एव कश्चिदन्यत्र व्यावृत्तात् पदार्थात्, किं तर्हि ? तदेव गकारादिव्यक्तिरूपं विजातीयव्यावृत्तिभेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायामन्यव्यावृत्तिः, अन्यापोहः–इत्यादिभिः पर्यायैः कथ्यते । तस्य तु धर्मिस्वरूपस्याभावे साध्ये ' गान्यबुद्ध्यनिरूप्यत्वात्' (तत्त्व० २१४२ ) इत्ययं हेतुः कस्य धर्मिणो धर्मो भवेत् ! नैव कस्यचित्
।। २४७९-२४८० ॥
१. क्व- पा०, गा० ।
२. धर्मो- पा०, गा० ।