________________
श्रुतिपरीक्षा
५७१ क्रमभावविरोधश्च शक्तकारणसन्निधेः॥२४६५॥ अन्यथेत्यादिना द्वयोरपि हेत्वोरनैकान्तिकतां परिहरति। सर्वबुद्धीनामिति । रसरूपादिबुद्धीनाम्। परस्परमभिन्नालम्बनत्वप्रसङ्गो भिन्ननिर्भासादित्येतस्य हेतोर्बाधकं प्रमाणम्। क्रमभावविरोधश्चेत्येतत्तु क्रमसम्भूतेरित्येतस्य ॥ २४६५ ॥ यदुक्तम्- "कृत्रिमत्वे च सम्बन्धः" (तत्त्व० २१३२) इत्यादि, तत्राह
प्रकृत्यैव पदार्थानामेकप्रत्यवमर्शने। भेदेऽपि शक्तिनियमः पुरस्तात् प्रतिपादितः ॥२४६६॥ हेतोः' प्रत्यवमर्शाच्च शब्दैकत्वादयोऽपि न। लोकः प्रयोगभूयस्त्वं शब्दस्यैकस्य मन्यते॥२४६७॥ अनेकव्यक्तिनिष्ठत्वात् सम्बन्ध उपपद्यते।
तस्मात्सार्वत्रिको लोके व्यक्तीनां ह्येकतां गतः॥२४६८॥ सुबोधम्॥ २४६६-२४६८॥ . अथ कस्माल्लोक इत्युच्यते? इत्याह
वस्तुतस्तु न सम्बन्धः शब्दस्यार्थेन विद्यते। भेदात् तस्मादनुत्पत्तेर्धान्तैरारोपितस्ततः॥२४६९॥
तथा हि विस्तरेणैषा प्रागेव प्रतिपादिता। __ शब्दार्थसंस्थितिः सर्वा विप्लुता व्याप्त्यसम्भवात्॥२४७०।
भेददित्यनेन तादात्म्यलक्षणं सम्बन्धं निषेधति। तस्मादनुत्पत्तेरित्यनेन तदुत्पत्तिलक्षणम्न चाभ्यामन्यः सम्बन्धोऽस्ति, न च प्रतिबन्धमन्तरेण शब्दस्यार्थप्रतिपादकत्वनियमो युक्तः; अतिप्रसङ्गात् । तस्माद् 'आरोपितः शब्दार्थयोः सम्बन्धः' इति प्रागेवान्यापोहचिन्तायां प्रतिपादितम् ॥ ३४६९-२४७० ॥ [G.671] "तस्मादकृत्रिमः शब्दः" (तत्त्व २१३४) इत्यादिप्रयोगे हेतुदृष्टान्तयोरसिद्धत्वमुद्भावयन्नाह
गोत्वं नित्यमपास्तं च सम्बन्धोऽपि च कल्पितः। ....... अण्वाकाशद्यपि क्षिप्तं हेतूदाहरणे न तत्॥२४७१॥
'गोत्वं नित्यमपास्तम्' इत्यनेन नित्यस्यासिद्धतामाह । 'सम्बन्धोऽपि च कल्पितः'. इत्यनेनापि सम्बन्धादित्यस्य, 'अण्वाकाशाद्यपि च क्षिप्तम्' इत्यनेनाकाशपरिमाणुवनित्यस्यासिद्धतामाह। अपास्तमिति प्रतिक्षिप्तम्, षट्पदार्थपरीक्षायाम्। नेति प्रतिषेधे। तदिति तस्मादर्थे ॥ २४७१॥ "सम्मुखानेकसामन्य०" (तत्त्व० २१३५) इत्यादावाह
निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपाद्यताम्।
एकरूपतया भ्रान्तैर्जनैरध्यवसायतः॥ २४७२॥ १. पा०, गा० पुस्तकयोस्ति ।
२. नाके-पा०, नैको-गा। ३. च क्षिप्त-पा०, गा० ।
४. नित्यमित्यस्या०-गा।