________________
५७०
तत्त्वसंग्रहे [G.669] वस्त्वेव विजातीयपरावृत्तं सामान्यं लिङ्गमुच्यते, नान्यत्, तच्चानित्यमेवेति साध्यविकलता दृष्टान्तस्य ॥ २४५८॥
यदुक्तम्- "घटादेरेकतापत्तौ" (तत्त्व० २१३०) इत्यादि, तदयं वर्णेष्वपि परिहार: समान इत्यादर्शयति
गादेरप्येकतापत्तौ जात्येष्टं सिद्धसाधनम्। अतद्रूपपरावृत्तिरभिन्ना कल्पितैव हि॥२४५९॥ व्यक्तीनामेकतापत्तौ बुद्धेः सर्वप्रमाणकम् ।
प्रतिप्रयोगमाक्षाद्यैर्वर्णभेदविनिश्चयात् ॥२४६०॥ "देशकालादिभिन्नाश्च'' इत्यादिना प्रयोगप्रपञ्चेन यद्यन्यांपोहलक्षणस्य. सामान्यस्यैकत्वं साध्यते, तदा सिद्धसाध्यता; सर्वत्रातद्रूपव्यावृत्तिलक्षणस्य सामान्यस्यैकबुद्ध्यध्यवसायवशेनैकत्वस्येष्टत्वात् । अथ व्यक्तीनां स्वलक्षणानामेकत्वं साध्यते? तदा प्रत्यक्षानुमानाभ्यां व्याप्तेर्बाधितत्वादनैकान्तिकता हेतूनाम्। आक्षारिति। अक्षम् इन्द्रियम्, तत्र भवमाक्षम्, प्रत्यक्षमिति यावत्। आदिशब्देनानुमानपरिग्रहः । बहुवचनं व्यक्तिभेदापेक्षया ॥२४५९-२४६० ॥ कथं प्रत्यक्षतो भेदोऽवगतः? इत्याह
यन्मनोज्ञामनोज्ञादिभेदः प्रत्यक्षतो गतः। बुद्धीनां क्रमभावित्वाद् भेदः सिद्धाऽङ्करादिवत् ॥ २४६१॥ देशकालादिभिन्ना हि गोशब्दव्यक्तिबुद्धयः। नैकार्था भिन्ननिर्भासाद् रसरूपादिवृद्धिवत्॥ २४६२॥ षड्जादिभेदनिर्भासः प्रत्यक्षेण हि निश्चितः।
न च व्यञ्जकवर्णानामित्येतदभिधास्यते ॥ २४६३॥ अनुकूलो मनोज्ञः । विपर्ययाद् विपर्ययः। अनुमानतोऽपि बाधामाह-बुद्धीनामित्यादि। अस्यार्थ: "शस्तनाद्यतनाः" (तत्त्व० २४६४) इत्यादिना स्पष्टीकरिष्यते। प्रयोग:या या भिन्नावभासा बुद्धयस्ताः सर्वा नैकविषयाः, यथा रसरूपादिविषयाः । भिन्ननिर्भासाश्च देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय इति व्यापकविरुद्धोपलब्धिः। असिद्धतामस्य परिहरनाह- षड्जादीत्यादि । २४६१-२४६३ ।।
"बुद्धीनां क्रमभावाच्च भेदः सिद्धोऽङ्करादिवत्' (तत्त्व० २४६१) इत्यस्यार्थं प्रमाणयन्नाह
ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे।
नैकार्थाः क्रमसम्भूते रूपगन्धादिबुद्धिवत्॥२४६४॥ [G.670] प्रयोगः-ये ये क्रमिणः प्रत्ययास्ते नैकविषयाः, तद्यथा रसरूपादिप्रत्ययाः क्रमिणः । क्रमभाविनश्चेमे ह्यस्तनाद्यतना गोशब्दविषयाः प्रत्यया इति व्यापकविरुद्धोपलब्धिः ।। २४६४॥
अन्यथा सर्वबुद्धीनामेकालम्बनता भवेत्। . १-१. व्यक्तीना....- पा०, पत्तावनैकान्तिका भवेत्-गा। २. सिद्धः....-पा०; सिद्धः कुमारिवत्- गा० । ३. ....भादिभिन्ना:- पा०। ४. व्यञ्जकव....तदभिध्यस्यते-पा०, गा०। ५-५. मेकालम्ब....त-पा०।