________________
श्रुतिपरीक्षा
५६९ केचिदित्यादिनापरो वैदिककलौकिकभेदव्यवस्थां दर्शयति । व्यञ्जकक्रमस्य संस्थितेर्नियतत्वात् केचित् 'शं नो देवी:' इत्यादयो नियतक्रमा एव प्रतीयन्ते, [G.668] अतस्ते नियतक्रमयोगिनोऽपौरुषेया इष्टाः, तद्विपरीताः सामर्थ्यात् पौरुषेया इति सिद्धम् ।। २४५२ ।। नन्वयमित्यादिना दूषयति
नन्वयं पौरुषो धर्मस्ताल्वादिव्यञ्जकक्रमः।
तस्येच्छापरतन्त्रत्वात् सम्भाव्येत' विपर्ययः॥२४५३॥ नियतक्रमयोगित्वमसिद्धम्। तथा हि- व्यञ्जकमनियमात्तदिष्टम्, स च व्यञ्जकानां ताल्वादीनां क्रमः पुरुषेच्छायत्तवृत्तित्वादनियतः; पुरुषेच्छायाः स्वातन्त्र्यात् । यदाह- 'यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः' ( ) इति। ततश्च "शं नो देवी:" (ऋ०१०, ९, ४) इत्यादेः 'सर्वकालमयमेव क्रमोऽभूद्, भविष्यति' इत्यत्र नियामकप्रमाणाभावात् कदाचिदन्यथापि सम्भाव्येत.क्रमः ॥ २४५३॥
यदुक्तम्- "ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञा" (तत्त्व० २११८) इत्यादि,
तत्राह
तेजस्त्वादि च सामान्यं विस्तरेण निराकतम।
तत्रातः प्रत्यभिज्ञेयं सामान्यं नित्यमेव न ॥२४५४॥ सर्वमेतद् वर्णेष्वपि कल्पयितुं शक्यत इति दर्शयन्नाह
वर्णेषु च तेष्वेव प्रतिक्षणविनाशिषु।
सामान्यं प्रत्यभिज्ञेयं गत्वाद्येव विशेषतः॥२४५५॥ . भेदबुद्धिस्तु यत्रांशे द्रुतमन्दादिके भवेत्।
तत्र न प्रत्यभिज्ञानं भेदबुद्ध्यावधारितम् ॥ २४५६ ॥ सामान्यमिति । अन्यव्यावृत्तिलक्षणम्॥ २४५५-२४५६॥ "देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः" (तत्त्व० २१२०) इत्यादावाह. . . शब्दैकत्वप्रसिद्धयर्थं प्रयुक्तेषु तु हेतुषु।
विजातीयाविरोधित्वात् प्रतिबन्धो न सिध्यति॥२४५७॥ । शब्दैकत्वप्रतिपादनाय ये अनुमानप्रयोगा उक्ताः, तेषु सिद्धे विपर्यये हेतोर्बाधकप्रमाणानुपदर्शनात् सर्वथैवानैकान्तिकता॥ २४५७ ॥
यदुक्तम्- “य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवत्" (तत्त्व० २११७) इत्यस्य दृष्टान्तस्य साध्यविकलतामादर्शयन्नाह
धूमसामान्यभागोऽपि नैवं सिद्धः स्थिरो मम।
अतद्रूपपरावृत्तं वस्तुमात्रं हि साधनम् ॥ २४५८॥ १. धर्मस्ताल्वा०....-पा०/
२-२. पा० पुस्तके नास्ति; तस्मात्कदाचित्तस्यापि— गा० । ३. न.-पा।
४-४. शक्यते विनाशिष-पा०; शक्यते चेयं प्रत्वभिज्ञा०-गा। ५-५. मत्वा ये वा-पा०; तं येषां-गा०। ६. भवे....-पा०, गा०। ७-७. कारिकांशोऽयं पा०, गा० पुस्तकयो स्ति। ८. सिद्धसाधनम्-पा०, गा० ।