________________
५६८
तत्त्वसंग्रहे कल्पनामोढम्; स एवायमिति शब्दाकारोल्लेखेन प्रवृत्तेः । नाप्यभ्रान्तम् पूर्वदृष्टप्रत्युत्पन्नयोरैक्यानुसन्धानात्। न च यदेव पूर्वदृष्टं तदेव पश्चाद् दृश्यते; अक्रमिणः सकाशात् क्रमिज्ञानानुत्पत्तेः । कार्यं हि कुतश्चिद्भवनधर्मि, यत् कदाचिन भवति तत्तस्यावैकल्यादविकलं' चेत् कारणं किमिति कार्याणि परिलम्बन्ते! न चापि नित्यस्यानुपकार्यतया काचिदपेक्षा सम्भविनी। तस्मात् तद्भावीनि ज्ञानानि युगपद् भवेयुः । प्रयोगः-यद्यदाऽविकलकारणं तत्तदा भवत्येव, यथा समवहितसकलचक्षुरादिकारणकलापं चक्षुर्ज्ञानम्। अविकलकारणानि [G.667] च सर्वस्यामवस्थायां गवादिशब्दभावीनि विज्ञानानीति स्वभावहेतुः । तस्माद् भ्रान्तेः सविकल्पकत्वाच्च प्रत्यभिज्ञा न प्रत्यक्षत्वेन सिद्धेति प्रागेव स्थिरभावपरीक्षायां प्रतिपादितम् ॥ २४४७॥ न चापि स्वरूपतः सर्वत्र प्रत्यभिज्ञानं सिद्धमित्यादर्शयन्नाह--
व्यावर्त्तमानरूपश्च भूयसा प्रत्ययो ध्वनौ।
शुकस्य व्याहृतं चेदं शारिकाया इतीक्षणात्॥२४४८॥ यदा हि-शुकसारिकादिभिर्व्याह्रियते शब्दः, तदा 'इदं सारिकाया व्याहृतम्', 'इदं शुकस्य' इति परस्परभिन्नविषयाध्यवसायाद् व्यावर्त्तमानः प्रत्ययो भवतीति न सर्वत्र सिद्धा प्रत्यभिज्ञा ॥ २४४८॥
अथापि स्याद्- व्यञ्जकभेदादयं शुकादिव्याहारे परस्परव्यावृत्तः प्रत्ययो जायत इति? एतदपि वार्तम्; व्यञ्जकस्य निराकरिष्यमाणत्वात् । एतदेवाह
सोऽयं व्यञ्जकभेदाच्चेद् वक्ष्यामो व्यक्त्यपाक्रियाम्। __ अस्मादेव च ते न्यायात् सर्वमेकमिदं भवेत्॥२४४९॥
सोऽयमिति व्यावर्त्तमानरूपः प्रत्ययः । किञ्च-यदि सिद्धोऽपि भेदः शब्दानां व्यञ्जककृतो व्यवस्थाप्यते, न स्वतः; तदा सर्वत्रानाश्वासः-इत्यतिप्रसङ्गमापादयन्नाह-अस्मादेव चेत्यादि। सर्व मिति विश्वम्॥ २४४९ ॥ भवत्वेवमिति चेत? आह
ततो न व्यञ्जकं किञ्चिद् व्यङ्ग्यं वा भवतां भवेत्। एकस्मिन्नविभक्ते हि व्याहता भेदकल्पना॥२४५०॥ पौरुषेया इमे शब्दा एते चानरकर्तृकाः।
व्यवस्थैषाऽपि वो न स्यात् प्रत्यभिज्ञोपजीविनाम् ॥ २४५१॥ 'इदं व्यञ्जकम्', 'अयं व्यङ्ग्यः' इति भेदनिबन्धो व्यवहारो न स्यात् ; अभेदात् । तथा-'इमे पौरुषेयाः', 'एते च शं नो देवीरित्यादयोऽपौरुषेया:'-इति व्यवस्था प्रत्यभिज्ञानपरायणानां भवतां नैव भवेत्; विशेषाभावात् ॥ २४५१॥
केचित् स्थितक्रमा एव व्यञ्जकक्रमसंस्थितेः। .
___ इष्टा अपौरुषेयास्ते नियतक्रमयोगिनः॥ २४५२॥ १. तस्याविकलं-पा०, गा०।
२-२. पा० पुस्तके नास्ति; किञ्चिन्न वा भवेत्- गा० । ३. ०भिज्ञोपजीविनी-पा०, गा०। ४-४. स्याभेदाल-पा०।
५-५. ....क्रमा-पा०।