________________
श्रुतिपरीक्षा
५६७ 'अग्निहोत्रात् स्वर्गो न भवति'- इत्ययं नार:=पौरुषेयशब्दोऽर्थं बोधयन्नपि मम मीमांसकस्याप्रमाणमित्येवं न साधुना द्वेषमात्रेण शक्यं वक्तुमिति वाक्यार्थः । अनेन पौरुषेयापौरुषेययोरत्यन्तपरोक्षेऽर्थे' तुल्यं प्रतीतिनिबन्धनत्वमाह। ततश्च तुल्ये प्रतीतिनिबन्धनत्वे यदपौरुषेयस्यैवं प्रामाण्यं तदस्येति नियुक्तिकमेतत्। न च दोषाणां पुरुषाश्रयत्वात् तत्र मिथ्यात्वं शङ्कयते, नापौरुषेयेष्विविति शक्यं वक्तुम्; अपौरुषेयेष्वपि प्रकृत्यारे मिथ्यार्थप्रत्यहेतुत्वस्य सम्भाव्यमानत्वात्।। २४४२ ।। एनमेवार्थं दर्शयति
इत्यत्यक्षेषु सर्वोऽपि शब्दस्तुल्यबलाबलः।
एकत्रैवानुरागोऽयं तद् वः केनेह हेतुना ॥ २४४३॥ सर्व इति पौरुषेयापौरुषेयः । एकत्रैवेति अपौरुषेये॥ २४४३ ।। यदुक्तम्-"द्विषन्तोऽपि" (तत्त्व० २११२) इत्यादि, तत्राह___ अनन्तरोदितं न्यायं वेदाप्रामाण्यकारणम्।
प्राज्ञा जल्पन्ति तेनामी भवेयुः सत्यवादिनः॥२४४४॥ [G.666] अनन्तरोदितमिति । शब्दस्येच्छामात्रवृत्तित्वेन वस्तुनि प्रतिबन्धाभावादित्यादि। प्राज्ञा इति सौगताः । यथोक्तं भाष्यकारेण-"प्रत्यक्षस्तु वेदवचने प्रत्ययो न चानुमां प्रत्यक्षविरोधेन प्रमाणीभवति" इति, यच्चेदमुक्तम्- "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्" (मी० द०, शा० भा० १.१.२) इत्येवमादि, तत्सर्वमनेनैव प्रत्यस्तं भवति; पौरुषेयेऽपि वाक्ये सर्वस्यैतस्य समानत्वात् ॥ २४४४॥ यदुक्तम्- "धारणाध्ययनव्याख्या" (तत्त्व० २११३) इत्यादि, तत्राह
मिथ्यानुरागसञ्जातवेदाध्यानजडीकृतैः ।।
मिथ्यात्वहेतुरज्ञात इति चित्रं न किञ्चन॥२४४५॥ .... न हि मातृविवाहादौ दोषः कश्चिदपीक्ष्यते।
पारसीकादिभिर्मूढैस्तदाचारपरैः सदा॥२४४६॥ मिथ्यानुरागेण सञ्जातं च तद्वेदाध्यानं चेति समस्य तेन जडीकृता इति पश्चात् तृतीयासमासः। आध्यानं च=आनुपूर्येण चिन्ता; मिथ्यानुरागेण हि विद्यमानस्यापि दोषस्यादर्शनात्। तथा पारसीकादिभिर्मातृविवाहादेरिति न किञ्चिदाश्चर्यम् ।। २४४५-२४४६ ॥ यदुक्तम्-“किञ्च शब्दस्य नित्यत्वम्" (तत्त्व० २११६) इत्यादि, तत्राह
प्रत्यक्षप्रत्यभिज्ञा तु प्रागेव विनिवारिता।
भ्रान्तेः सकल्पनत्वाच्च नातो नित्यत्वनिश्चयः॥२२४७॥ "कल्पनापोढमभ्रान्तम्" (तत्त्व० २११६) इति हि प्रत्यक्षलक्षणम्। न च प्रत्यभिज्ञानं १. पौरुषेययो०- जै०, पा० ।
२. नेतरस्येति-पा०, गा०। ३. पा०, गा० पुस्तकयो स्ति। ४. पौरुषेय:-पा०, गा० . . ५. यच्चोक्तं-गा।
६. सर्वमेतेनैव-गा०। ७. ०धूर्तेस्तदा०-पा०, गा०।