________________
५६६
तत्त्वसंग्रहे
बाधाऽनुमानतः स्पष्टा नैरात्म्ये प्रतिपादिता॥२४३६॥ जात्याद्यन्यदपि प्रोक्तं बाधितं तत्र साधितम्।
ज्ञापितप्रतिबन्धा च साऽनुमा प्राक् प्रबाधिका॥२४३७॥ यथोक्तं वेदे “स एवायमात्मा" इति प्रकृत्यामनन्ति- "अशीर्यो न हि शीर्यते" (बृ० उ० ४.५.१५) इति । पुनश्चोक्तम्- "अविनाशी वा अरेयमात्मानुच्छित्तिधर्मा" (बृ०उ० ४.५.१५) इति। न शीर्यत इत्यशीर्यो नित्य इत्यर्थः । अरे इत्यामन्त्रणपदम्। जात्यादीत्यादिशब्देन गुणद्रव्यकर्मादिपरिग्रहः। तच्च जात्यादि यथा प्रमाणबाधितम्, तथा' षट्पदार्थ परीक्षायां साधितम्। या चात्मनो बाधिकाऽनुमा, साऽपि ज्ञापितप्रतिबन्धा नैरात्म्याधिकारे ॥ २४३६-२४३७॥
ननु च वेदे प्रमीयमाणं तत्कथमनुमयारे बाध्यते, अथ प्रमाणमपि बाध्येत, अनुमाऽपि कस्मात् तेन न बाध्यते? इत्याशङ्कयाह
___ तस्या वस्तुनिबद्धायाः को बाधां मंस्यते जडः। .
शब्दमात्रेण तुच्छेन तद्भाविन्याऽथ वा धिया॥ २४३८॥ तस्याइति अनुमायाः । शब्दस्येच्छामात्रनिबन्धनत्वान्न प्रमेये वस्तुनि प्रतिबन्धोऽस्तीति न स तत्र प्रमाणम्। अनुमा तु तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गबलेनोत्पद्यमाना तत्र वस्तुनि प्रतिबद्धति सैव प्रमाणम्, अतो बाधिका। तद्भाविन्येति शब्दभाविन्या॥ २४३८ ॥ अथाप्रतिबद्धोऽपि वस्तुनि शब्द: प्रमाणं स्यात्, तदाऽतिप्रसङ्गः स्यादित्यादर्शयति
पुंवाक्यादपि विज्ञानं यत् प्रवृत्तमतीन्द्रिये।
तस्याप्यध्यक्षतुल्यत्वं कस्मादभिमतं न वः॥ २४३९॥ [G.665] 'अग्निहोत्रात् स्वर्गो न भवति' इत्यस्यापि वाक्यस्य किं न प्रामाण्यं स्यात्; उभयत्राप्रतिबद्धत्वेनाविशेषात् ॥ २४३९ ॥ तमेवाविशेषं दर्शयन्नाह
दृष्टान्तनिरपेक्षत्वाद्. दोषाभावोऽप्यदृष्टितः। तस्याप्यस्त्येव बाधा चेच्छयतेऽस्य नराश्रयात्॥२४४०॥ यद्येवं वैदिकेऽप्येषा न शङ्का विनिवर्त्तते।
मिथ्यावबोधहेतुत्वं तस्य हि प्राकृतं भवेत्॥२४४१॥ अथापि स्यात्-यदि नाम तदानीं दोषो नोपलभ्येत, तथापि पुरुषाश्रयत्वेन सम्भाव्यत इति? एतद् वेदेऽपि समानम्। यथा हि तस्य प्राकृतं सत्यार्थत्वम्, तथा मिथ्यार्थत्वमपि सम्भाव्यतेति न कश्चिद्विशेषः ॥ २४४०-२४४१॥
यदुक्तम्- "ममाप्रमाणम्' (तत्त्व० २११०) इत्यादि, तदेतत्पौरुषेयेऽपि 'अग्रिहोत्रात्स्वर्गो न भवति' इत्यादौ वाक्ये शक्यमेव वक्तुमित्यादर्शयति
ममाप्रमाणमित्येवं शब्दोऽर्थं बोधयन्नपि। नारोऽसौ द्वेषमात्रेण शक्यो वक्तुं न साधुना ॥ २४४२ ॥ २. प्रप्रियमाणं-जै।
३. कथमत्र मया-पा०/
१. तत्क-पालगा