________________
५६५
श्रुतिपरीक्षा यदुक्तम्- "अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम्" (तत्त्व० २१०४)
इत्यादि, तत्राह
अकृतत्वाविनाशाभ्यां नित्यत्वं चेद विवक्षितम। निषेधमात्ररूपाभ्यां निरुपाख्येऽपि तत्समम्॥ २४३०॥ अतो गगनराजीवनित्यताऽस्ति न वास्तवी।
यथा तथैव वेदेऽपि तत्प्रामाण्यं न सिध्यति॥२४३१॥ अत्र द्वयी कल्पना-किं प्रसज्यप्रतिषेधरूपाभ्यामकृतकत्वाविनाशाभ्यां नित्यत्वमिष्टम्, पर्युदासरूपाभ्यां वा। तत्राद्ये पक्षे गगनपद्मादिनाऽनैकान्ताद् वेदस्य न वस्तुभूतनित्यत्वसिद्धिः। यथा हि आकाशकुशेशयस्य कृतकत्वविनाशित्वनिषेधेऽपि न वस्तुभूतनित्यत्वसिद्धिः, तथा वेदेऽपीत्यनैकान्तिकता हेतोः। ततश्चाकाशकुसुमवदेव प्रामाण्यमपि न स्यात् ॥ २४३०२४३१॥ असिद्धतामपि दर्शयन्नाह
कृतकत्वविनाशित्वनिषेधोऽपि न सिध्यति।
साधनेऽस्त इति प्रोक्तं तन्नित्यत्वं न सिध्यति॥२४३२।।* अस्त इति दूषिते। तदिति तस्मात् ॥ २४३२ ।।
अथ द्वितीयः पक्षः, न तर्हि वक्तव्यमेतत्- "तौ चाभावात्मकत्वेन नापेक्षेते स्वसाधनम्" (तत्त्व० २१०४) इति। तदर्शयति
पर्युदासात्मकाभ्यां चेन्नाभ्यां नित्यत्वमिष्यते। . तौ यद्भावात्मकत्वेन व्यपेक्षेति स्वसाधनम्॥२४३३॥ - नित्यत्वं वस्तुरूपं यत्तदसाधयतां न तत्।
स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते॥२४३४॥ सुबोधम् ॥ २४३३-२२३४॥
यदुक्तम्- "वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः" (तत्त्व० २१०५) इत्यादि, तत्राह
विनिश्चितत्रिरूपं च साधनं यत् प्रकाशितम्।
निषेधः शक्यते तस्य त्वत्पित्रापि न जातुचित्॥२४३५॥ [G.664] प्रकाशितपिति। अनुमानपरीक्षायां स्वभावकार्यानुपलम्भलिङ्गजम्। तन्न शक्यते प्रतिषेद्धम्; वस्तुप्रतिबद्धत्वादस्यान च वस्तुनः स्वभावान्यथात्वं केनचित् क्रियेत; स्वभावान्तरोत्पत्तिलक्षणत्वात्तस्य । न च स्वभावान्तरकरणे तस्य किञ्चित् कृतं भवति; अतिप्रसङ्गात्। तस्माद् यत् प्रमाणसिद्धवस्तु, न तस्य केनचिद् बाधा; अन्यथा हि प्रमाणलक्षणोपपत्रस्य बाधायां तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासान्न क्वचित् तत् प्रमाणं स्यात् ॥ २४३५ ॥ एतदेव दर्शयति
___ न हि शीर्यत इत्युक्तो वेदे यः पुरुषोऽस्य च। १. प्रामाण्यमिति-जै०।
__*जै० पुस्तके द्विरावृत्तेयं कारिकेति ध्येयम्।