________________
६९०
तत्त्वसंग्रहे
तत्वात् साक्षाद्विधिमुखेन गुणानां व्यापारो न सम्भवतीत्युच्यते ? तदेतद्दोषेष्वपि समानम्। तथा हि-दोषसन्निधानेऽपि गुणनिवृत्तौ सत्यामप्रामाण्यमुपजायत इति दोषाणामपि विधिमुखेनाप्रामाण्योत्पत्तौ व्यापारो न स्यात् । ततश्चाप्रामाण्यमपि स्वत: प्रसज्येत; अविशेषात् । न हि दोषा गुणान्निराकृत्य साक्षादप्रमाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । न हि दोषा गुणान्निराकृत्य साक्षादप्रमाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । तस्मात् तद्भावाभावानुविधानव्यतिरेकेण नान्यः कार्यकारणभावः सम्भवतीति दोषवद् गुणानामपि कारणत्वं समानम् ।
यच्चोक्तम्—'इन्द्रियादिरूपमेवान्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम्' इति, तदप्ययुक्तम्; अविकलकारणत्वेन सर्वज्ञानानां प्रामाण्यप्रसङ्गात्, बोधरूपतावत्। यथा बोधरूपता ज्ञानानां समनन्तरप्रत्ययप्रतिबद्धा सती दोषादिसमवधानेऽप्यविकलकारणतया सर्वत्र ज्ञाने भवति, तथार्थाविसंवादित्वमपि स्यात् ।
स्यादेतत्–दोषैरप्रामाण्यस्योत्पादे सामान्यमविकलकारणमपि नोपजायते; प्रामाण्येतरयोरेकत्र ज्ञाने विरुद्धयोरयोगात् बोधरूपता तु निष्प्रतिद्वन्द्वा सर्वत्र भवत्येवेति ? यद्येवम्, न तर्हीन्द्रियरूपमेवान्यनिरपेक्षं कारणं सिध्यति, सत्यपि तस्मिन्नविकले प्रामाण्याख्यकार्यानुत्पत्तेः। न ह्यन्यनिरपेक्षस्य कदाचिदजनकत्वं युक्तम् । नापि यद्यस्मिन् सत्यपि न भवति तत्तन्मात्रकारणं युक्तम्; अतिप्रसङ्गात् ।
किञ्चेदं तावच्च भवान् वक्तुमर्हति - यद्यविकलकारणं प्रामाण्यम्, किमिति दोषसन्निधानेऽपि नोत्पद्यत इति; स्वविरुद्धकारणस्य दोषस्य सन्निहितत्वादिति चेत् ? अप्रामाण्येऽपि तुल्यम्; तस्यापि तदानीं स्वविरुद्धकारणमिन्द्रियादिसन्निहितमित्युत्पत्तिर्मा भूत् ।
किञ्च–यदि नाम विरुद्धकारणाद् दोषाद् बिभ्यतः प्रामाण्यस्यानुत्पत्तुमिच्छा स्यात् स्वकारणं त्वप्रतिहतसामर्थ्यं सत् तदानीं किमिति तदुपेक्षेत ! एवं हि तेनात्मनोऽप्रतिहतशक्तिता प्रकटिता स्याद्, यदि स्वकार्यमुत्पत्तुमनिच्छदपि हठादुत्पादयेत् । दोषैरुपहतशक्तित्वादुपेक्षित’ इति चेत् ? न; ऐन्द्रिये च प्रामाण्ये कारणस्याप्युपहतशक्तित्वप्रसङ्गात्, विशेषाभावाज्ज्ञानस्याप्यनुत्पत्तिप्रसङ्गाच्च । तथा हि-यथा दोषैरुपहतशक्तित्वादैन्द्रियं प्रामाण्यं न जनयेत्, विज्ञानमपि नैव जनयेद्; असामर्थ्यात् । अन्यथा विज्ञानहेतुमात्रजन्यं प्रामाण्यं न सिध्येत्, तदुत्पत्तावप्यनुत्पत्तेः । यो हि यदुत्पत्तावपि नियमेन नोत्पद्यते, नासौ तेन सहैककारणः, यथा कोद्रवाङ्कुरोत्पत्तावप्यनुत्पद्यमानः शाल्यङ्कुरः। नोत्पद्यते च विज्ञानात्पत्तावपि प्रामाण्यं नियमेनेति व्यापकानुपलम्भ:। [G.815] नापि तत्स्वभावमखण्डयन्नात्मभूतां शक्तिं कश्चिदुपहन्तुं शक्नुयात्। ततश्चैवमपि शक्यते पठितुम्—
स्वतः सर्वोपलब्धीनां प्रामाण्यमिति गृह्यताम्।
न हि स्वतः सती शक्तिर्हन्तुमन्येन पार्यते ॥ इति ।
स्यादेतत्-नेन्द्रियादिमात्रं प्रामाण्यकारणमिष्टम्, किं तर्हि ? विशिष्टमेव यद् दोषरहितम्, तेन यथोक्तदोषाप्रसङ्ग इति ? यद्येवम्, सामग्र्यन्तरमेव गुणसहितमिन्द्रियादिप्रामाण्यकारणमिति प्राप्तम्; गुणसहितस्यैव दोषरहितत्वसम्भवात् । ततश्च न वक्तव्यम्२-२. ० शक्तित्वादिन्द्रियम् इत्येव पांठ: पा०, गा० पुस्तकयोः ।
१. ०न्द्रियस्वरूप०- गा० ।