________________
स्याद्वादपरीक्षा
४२७ अपि च-अन्वव्यतिरेकाभ्यां विशेषेभ्य एव कार्यसिद्धेस्त एव वस्तुलक्षणयुक्ताः', न सामान्यार्थम्; क्रियाकारिलक्षणत्वाद् वस्तुत्वस्य, ततश्च किं सामान्यं स्वलक्षणाद्भिन्नम्, आहोस्विदभिन्नमिति किमर्थं क्रियार्थिनस्तत्र भेदाभेदचिन्तया; यस्माद् यमेव स्वभावमर्थक्रियायोग्यमभिसन्धायैष पुमानर्थक्रियार्थी प्रवर्तते, तद्गतावेव भेदाभेदौ चिन्त्येतेऽर्थक्रियार्थिभिः, न व्यसनितया! अन्यथा हि यद्यकल्पितौ भेदाभेदौ नेष्येते, तदा तस्मार्थक्रियायोग्यस्यात्मना-स्वेन रूपेण भेद: पारमार्थिकोऽस्त्येव, व्यावृत्त्या च विकल्पबुद्धिप्रतिभासाऽनुरोधिन्या कृतव्यवस्था सामान्यताध्यवसिततद्भावाऽस्त्येव-इत्यविवाद एव। इयतैवार्थक्रियार्थिनो भेदसामान्यचिन्ता समातेति किमनर्थक्रियाकारिणः सामान्यस्य भेदाभेदचिन्तया!
अथापि स्याद्-वस्त्वेव सामान्यमस्तु, किं परिकल्पितया व्यावृत्त्या? इत्याहवस्त्क्त्यिादि। यदि पटादिरूपं घटादिरन्वियात्, तदा मधूदकाद्याहरणार्थी पटादावपि प्रवर्तेतेति प्रवृत्त्यादेः प्रसङ्गः स्यात् । आदिशब्दात् तुल्योत्पत्तिनिरोधादिप्रसङ्गः॥ १७७३-१७७४ ॥ अथ सौगतैरिव परैरपीदमिष्यते
"तस्माद्यतोयतोऽर्थानांव्यावृत्तिस्तन्निबन्धनाः ।
जातिभेदा; प्रकल्पन्ते तद्विशेषावगाहिनः"॥ (प्र० वा० ३.४१) इति? अत्राह
कल्पनारचितस्यैव वैचित्र्यस्योपवर्णने।
को नामातिशयः प्रोक्तो विप्र-निर्ग्रन्थ-कापिलैः ॥ १७७५॥ वैचित्र्यस्येति भेदस्य ॥ १७७५॥ वर्द्धमानकभङ्गेनेत्यादिना कुमारिलमतमाशङ्कते
वर्द्धमानकभङ्गेन रुचकः क्रियते यदा। तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः॥१७७६॥ हेमार्थिनस्तु माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम्।
नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम्॥१७७७॥ स ह्याह-उत्पादस्थितिनाशस्वभावत्वात् सर्वमेव वस्तु त्र्यात्मकम्। एकस्मादपि प्रीत्यादिकार्यत्रयदर्शनात्, तथा हि-यदा वर्द्धमानकं भक्त्वा रुचकः क्रियते, तदा [G.502] वर्द्धमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः, सुवर्णार्थिनस्तु माध्यस्थ्यम्। यदि च वस्त्वेकरूपमेव स्यात्, तदैकाकारैव बुद्धिः स्यात्, न त्रिप्रकारा। वर्द्धमानकरुचकौ=भाजनविशेषौ ॥ १७७६-१७७७॥
स्यादेतत्-यदि नाम त्र्यात्मकं वस्त्विति सिध्यति, तथापि नाशदिरूपेण त्र्यात्मकमित्येतत् कुतः? इत्याह
न नाशेन विना शोको नोत्पादेन विना सुखम्।
स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता॥१७७८॥ १. स्वलक्षण-पा०, गा०। २. जातिभेदादिरूपस्येत्यर्थः।