________________
४२६
तत्त्वसंग्रहे
न ह्यस्माभिः सामान्यविशेषाणां परस्परमत्यन्तं भेद' इष्टः, ततश्च भेदात्' इत्यसिद्धो हेतुः? इत्याह-अभेदे वा विकलाः कथमिति। सामान्याद्विशेषाणामभेदेऽङ्गीक्रियमाणे न तर्हि वक्तव्यम्-"विशेषान्तरवैकल्यादेके न जनकम्" (तत्त्व० १७६८) इति । अतस्तस्मिन् सामान्ये तिष्ठत्यविकले सति तदव्यतिरेकिणां विशेषाणामपि वैकल्यासिद्धिः। न हि यो यदेकयोगक्षेमो न भवति, स तत्स्वभावो युक्तः ॥ १७६८॥
यथा त्वयं विशेषेऽपि न सर्वं सर्वकारणम्। .
नानात्वस्याविशेषेऽपि तथैव नियमो भवेत्॥१७६९॥ अपि च-समान एवायं प्रसङ्गो भवतामपि, अन्यस्याविशिष्टत्वात् किमिति सर्वः सर्वं न जनयेत् ? यथा भवतामन्वयस्याविशेषेऽपि सर्वं सर्वस्य जनकं न भवति, तथाऽस्माकमपीति यत्किञ्चिदेतत्। किञ्च-भेदाविशेषेऽपि कश्चिजनयति नापर इति जनकस्वभावप्रतिनियमादेवं भवेत्, एकस्य यः स्वभावो नासौ परस्येति कृत्वा, न चैवं सति किञ्चिद् विरुध्यते॥ १७६९॥ .
भेदेऽपि जनकः कश्चित् स्वभावनियमाद् भवेत्। .
अन्वये त्वेक एकस्य जनकोऽजनकश्च किम्॥१७७०॥ यदा त्वनुगतस्यैकात्मनो जनकत्वम् तदैकस्यैकस्मिन् कार्ये जनकत्वमजनकत्वं चेति कथं विधिप्रतिषेधौ युक्तावेकाधारौ। भिन्नाधिकरणौ तु न विरुद्धावित्यत एकस्येत्याह॥
भेदोऽप्यत्रास्ति चेदस्तु स किं तस्यैव वस्तुनः।
न हि तस्यान्वयादन्यो ननु भेदादकारकः॥१७७१॥ · अथापि स्यात्-नास्माभिरेकान्तेनान्वय एवेष्टः, येनैकस्यैकत्र जनकत्वाजनकत्वविरोधः स्यात्, किं तर्हि ? भेदोऽप्यत्रास्ति, तेनाजनकत्वं न विरुद्धमिति? अस्तु भेदः, स किं जनकस्वभावा भेदस्तस्यैवानुगतस्य जनकात्मनोऽभीष्टः, आहोस्विदन्यस्येति वक्तव्यम् ? न तावत्तस्यैव, न हि स्वभावाद् भावस्य परावृत्तिर्युक्ता; नि:स्वभावत्वप्रसङ्गात्। नाप्यन्यस्य भेदे तस्य जनकस्वभावस्याविकलस्याजनकत्वं युक्तम्; अतिप्रसङ्गात्। भवतु वा तस्यैव स्वस्वभावाद् भेदः, तथाप्येकस्य जनकत्वाजनकत्वविरोधो न परिहत एव। तथा हिभेदादपि तस्यैकस्याकारको भवेत्। ननु नान्योऽन्वयात्, किं तर्हि ? स एवान्वयः, ततश्च स एवैकस्य [G.501] जनकत्वाजनकत्वविरोधस्तदवस्थ एव। अन्वेतीत्यन्वयः जनक एव स्वभाव उच्यते। नन्विति अभिमुखीकरणम्॥ १७७१॥
स एव भाविकश्चार्थो यो नामार्थक्रियाक्षमः। स च नान्वेति, योऽन्वेति कार्य तस्मान्न जायते॥१७७२॥ यं चात्मानमभिप्रेत्य पुमानेष प्रवर्तते। चिन्त्येते तद्गतावेव भेदाभेदावकल्पितौ॥१७७३ ॥ अन्यथा ह्यात्मना भेदो व्यावृत्त्या च समानता। ..
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ॥१७७४॥ १-१. ०मत्यन्तभेदः-पा०, गा०। २. भेदो न कारक.-पा०, गा०। ३. विद्येते-पा०, गा०।