________________
स्याद्वादपरीक्षा
४२५ हेतुः । न हि चक्षुरादीनां नीलादिज्ञानजनकात् स्वभावादिविशेषेण व्यावृत्तिः सिद्धा; यतस्तेषामपि चक्षुरादीनां यः स्वभावः सोऽपि जनकः इष्टः । को ह्यत्र नियमः-तेनैव तत्कार्यं कर्त्तव्यम्, नान्येनेति ! अन्योऽपि कुर्यात् सोऽपीति न विरोधं पश्यामः । यदि तु पुनरविशेषेण व्यावृत्तिः स्यात्, तदा स्वस्वभावादपि स्यात्, ततश्च निःस्वभावताप्रसङ्गः स्यात् । तस्मान्न स्वभावाद् भावानां व्यावृत्तिर्युक्ता ॥ १७६४॥
. अन्यस्माजनकात् तेषां व्यावृत्तिरुपवर्ण्यते।
अथ स्वस्वभावं मुक्त्वाऽन्यस्माज्जनकाद्वा व्यावृत्तिश्चक्षुरादीनां सा हेतुत्वेनाभिमता, तदाऽनैकान्तिकता हेतोः। तदा ह्यन्यस्मात् स्वभावाद् व्यावृत्तस्तत्स्वभावो मा भूत्, न तु तदजनकः; यतः सर्व एव स्वरूपेणैव जनको न पररूपेण। येन चात्मीयेन स्वभावेनासौ जनक इष्यते, तस्माच्च न व्यावृत्त इति कथमजनक: स्यादित्यनैकान्तिका हेतोः । अथातत्स्वभावता पर्युदासवृत्त्या साध्यते, तदा सिद्धसाध्यता; परस्परं भावानां स्वभावविवेकस्येष्टत्वात् ।
अतजनकरूपत्वं वाच्यं तच्चेष्टमेव नः ॥१७६५॥ अतञ्जनकरूपत्वमिति । स चासौ जनकश्च तजनको रूपादिः, तस्य रूपम् स्वभावः, स यस्य नास्ति सोऽतजनकल्पस्तद्भावः तत्त्वम्। तस्य अन्यस्य यजनकरूपं तेन रहितत्वमिति यावत्।
__ अथ वा-तच्च तज्जनकं चेति तज्जनकम्, तजनकं च तद्रूपं चेति कर्मधारयं कृत्वा ना बहुव्रीहिः कार्यः। त्रिपदो वा बहुव्रीहिः॥ १७६५ ॥
न ह्यप्युत्पादकं तस्य स्वरूपेणैव वर्ण्यते। . [G.500] अथैकस्मिन् कार्ये कर्तव्ये स एव तेषां चक्षुरादीनां परस्परासङ्कीर्णो जनकः स्वभावः कुत आयातः, येन त एव तु.कार्ये नियताः स्युः? इत्यनशङ्कयाह
... नियतास्तत्र ते सर्वे स्वहेतुभ्यः समुत्थिताः॥१७६६॥
- यदुक्तम्-'भेदेन निर्विशिष्टत्वाच्छ्रवणाद्यपि जनकं तस्य किं नेष्टम्' (तत्त्व० १७६२) इति, तदनेन परिहतम्। तस्मात् स्वभावनियमाद्भेदेऽपि कश्चिजनको भवेन्नापर इति न किञ्चिद्विरुद्धम् ! ॥ १७६६ ॥ ..... . एकात्मानुगतत्वात् तु यद्येकजनका इमे।
. . 'आत्मैकत्रापि सोऽस्तीति किमन्यैः सहकारिभिः ॥१७६७॥ - यदि तु पुनरेकस्वभावानुगतत्वेन भिन्ना अपि चक्षुरादयो जनकाः स्युः, तदैकस्तेषां स्वभावो जनक एकस्मिन्नपि कारणेऽस्तीति तत एवैकस्मात् कार्योत्पत्ति: स्यात्। ततश्च शेषसहकारिकारणवैयर्थ्यप्रसङ्गः स्यात्।
विशेषान्तरवैकल्यादेके न जनकं यदि।
ननु भेदादसक्तास्तेऽभेदे वा विकलाः कथम् ! ॥१७६८॥ अथ विशेषान्तरवैकल्यान्नैकस्मात् कार्योत्पत्तिरिति चेत्? ये ते विशेषां विकला इष्यन्ते तेषामशक्तत्वात् । कस्मात्? भेदात्-समर्थाभिमतादनुयायिनः स्वभावाद्, अन्यत्वादिति यावत् । न चाशक्तस्य वैकल्ये कार्यानुत्पत्तियुक्ता; कस्यचिदनुत्पत्तिप्रसङ्गात्। अथापि स्यात्