________________
४२४
तत्त्वसंग्रहे तस्मात्स्वहेतोरिति वक्तव्यम्, तस्यापि कुत इत्यनादिहेतुपरम्परा । अक्षम् इन्द्रियम्। 'अमृतागुडूची। आदिशब्दः प्रत्येकमभिसम्बध्यते। यथा गुडूच्यादीनामेव ज्वरादिशमने शक्तिः, नान्येषाम्, इन्द्रियविषयालोकमनस्कारादीनां च विशिष्टज्ञानोत्पादने, तथैकप्रत्यवमर्शेऽपि केषाञ्चिदेव शक्तिनियम इति । यद्वा-अक्षशब्देन बिभीतकस्याभिधानम्। आदिशब्द: समुदायेन सम्बध्यते ॥ १७५८॥ ननु नीलादीत्यादिना दृष्टान्तासिद्धिमाशङ्कते
ननु नीलादिविज्ञानजननं लोचनं कथम्? व्यावृत्तरूपभागेव नीलादिभ्यो यदीष्यते॥१७५९॥ नीलादिज्ञानजनकानीलादेर्भेदवद् यथा। .. श्रोत्रं न तस्य जनकं तथा चक्षुरपीष्यताम्॥१७६०॥ जनकाद्धि परावृत्तः कोऽपरो जनको भवेत्।
भावस्तस्मात् पदार्थानामन्वयोऽपीति निश्चयः॥१७६१॥.. यदि नीलादिभ्यो व्यावृत्तिरूपभागेव लोचनमिष्यते, नानुवृत्तिभागित्यवधारणेनाह, [G.498] तदा नीलादिविज्ञानजनकं लोचनं न प्राप्नोति, तज्जनकस्वभावात् परावृत्तत्वात्। यो हि यज्जनकस्वभावात् परावृत्तः स तज्जनको न भवति; यथा नीलादिज्ञानजनकान्नीलादेावृत्तं श्रोत्रं न तस्य नीलादिज्ञानस्य जनकम्। नीलादिज्ञानजनकाच्च नीलादेावृत्तं चक्षुरिति व्यापकविरुद्धोपलब्धिप्रसङ्गः। न चैवं भवति, तस्माद्विपर्ययः । यो हि यजनकः स. तजनकस्वभावापरावृत्तः; यथा नीलज्ञानजनकं नीलं स्वस्मात् स्वभावात् । नीलज्ञानजनकं च चक्षुरिति स्वभावहेतुः । एवं नीलादयोऽपि पक्षत्वेन वाच्याः । तस्माद् 'अस्ति भावानामन्वयः' इति प्रसङ्गविपर्ययेण दृष्टान्तासिद्धिमाह ॥ १७५९-१७६१॥
__ अथापि स्यात्-ततो व्यावृत्तं च भविष्यति तज्जनकं,च-इत्येनैकान्तिकं प्रसङ्गसाधनम्? इत्याह
अन्यथा निर्विशिष्टत्वाद् भेदेन श्रवणाद्यपि।
जनकं तस्य किं नेष्टं चक्षू रूपादिभेदवत् ॥१७६२॥ श्रोत्रादीनामपि नीलादिज्ञानजनकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम्; भेदेनाविशिष्टत्वात् नीलादिभ्यो यो भेदश्चक्षुषस्तेन भेदेन श्रोत्रादीनां चक्षुरादिना तुल्यत्वात्। यथा चक्षुर्नीलादेावृत्तं तथा श्रोत्रमपीति यावत् ॥ १७६२ ॥ व्यावृत्तिरित्यादिना प्रतिविधत्ते
व्यावृत्तिश्चक्षुरादीनां न सिद्धा जनकादियम्। अविशेषेण यत् तेषामात्मापि' जनको मतः ॥१७६३ ॥ स्वभावान्न च भावानां व्यावृत्तिरुपपद्यते।
स्वभावाद्धि परावृत्तौ नैःस्वाभाव्यं प्रसज्यते ॥१७६४॥ [G.499] अविशेषेण तज्जनकस्वभावात् परावृत्तिमात्रं यदि हेतुत्वेन वर्ण्यते तदा न सिद्धो १. अमृतं-पा०, गा०।
२.० माधापि-पा०।