________________
४२३
स्याद्वादपरीक्षा - असमर्थपरावृत्तिः सादृश्यं तद्विकल्पितम्॥१७५२॥ • ततश्चात्यन्तभेदेऽपि तुल्यताऽस्ति विकल्पिता।
भावो भावान्तरैस्तुल्यः खपुष्पात् तद्विशिष्यते॥१७५३॥ - असमर्थपरावृत्तिरिति। असमर्थाः वन्ध्यासुतादयः, तेभ्यः परावृत्तिः अतदात्मता। यतश्च सादृश्यं कल्पितमस्ति, तस्माद्यदुक्तम्-"भावो भावान्तरातुल्यः" (तत्त्व० १७०९) इति, तदसिद्धम् ॥ १७५२-१७५३॥ नन्क्त्यिादिना सुमतेश्चोधमाशङ्कते
ननु येनात्मना वस्तु समानापरवस्तुनः। व्यावृत्तं तत्सजातीयैस्तेनैव सदृशं यदि ॥१७५४॥ . विज्ञायेत विजातीयैरपि तुल्यतया तदा । . तस्यात्मनोऽविशिष्टत्वान्न च तद् ज्ञायते तथा ॥१७५५॥
सजातीयासमानोऽपि तस्माद् येन भवत्ययम् । .
आत्मना तत्समानश्च तयोर्भेदः स्वभावयोः ॥१७५६॥ स आह-येनात्मनां सजातीयविजातीयाभ्यां व्यावृत्तं वस्तु तेनैवात्मना तद्वस्तु यदि सजातीयैः सदृशं भवेत्, तदा विजातीयैरपि तुल्यतया विज्ञायेत; तस्यात्मनोऽविशिष्टत्वात्। न च ज्ञायते, तस्माद्येन स्वभावेन सजातीयासमानोऽपि भवति, येन च स्वभावेन तत्सदृशो भवति, तयोः स्वभावयोर्भेदोऽभिवाञ्छितव्यः । ननु स यदि सजातीयः, कथं तेनासमानो भवति; अथ तेनासमानो भवति कथं सजातीयः-इति परस्परव्याहतमेतत् ? नैष दोषः; • यतः परेण सर्वमेव वस्तु सामान्यविशेषात्मकमिष्टम्, तस्माद् वस्तुत्वादिना सामान्येन सर्वमेव
सजातीयमित्युच्यते, विशेषरूपेण तदेव विजातीयमिष्टमिति, तदपेक्षया पुनरसमान इत्यभिधीयत इत्यदोषः । समानापरवस्तुन[G.497] इति । समानं च तदपरं चेति समानापरवस्तु। अपरमिति समानम्। शेषं सुगमत्वान्न विभक्तम्॥१७५४-१७५६॥ .. तेनैवेत्यादिना प्रतिविधत्ते
तेनैवासौ स्वभावेन समान इति गम्यते। ... . एकप्रत्यवमर्शस्य हेतुत्वेनान्यभेदतः ॥१७५७॥
- तेनैव स्वभावेन समान इत्युच्यते; एकप्रत्यवमर्शप्रत्ययकारणत्वात् । एतदुक्तं भवतिये ह्येकप्रत्यवमर्शं प्रति कारणभावं न प्रतिपद्यन्ते त एवासमाना इति व्यवह्रियन्ते, ये तु प्रतिपद्यन्ते ते समाना इति ॥ १७५७॥
अथ तस्यैवेकप्रत्यवसमर्शस्य हेतवः किमिति सर्वे न भवन्ति, भेदस्याविशिष्टत्वात् ? इत्याशङ्कयाह
एकप्रत्यवमर्शस्य हेतवः केचिदेव हि ।
समर्थरूपनियमाद् भेदेऽप्यक्षामृतादिवत् ॥१७५८॥ न हि स्वभावाः पर्यनुयोगमर्हन्ति-कस्मादग्निर्दहत्युष्णो वा नोदकमिति । एवं तु युक्तं वक्तुम्-कुतोऽस्यायं स्वभाव इति। निर्हेतुकत्वं त्वनपेक्षस्य नियमायोगेनातिप्रसङ्गात्।